SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । । कुतस्त बाढमेवं घटेतापि यद्युक्ता संभवेत्स्थितिः । सैव विप्रतिपन्नास्ति वादिवैमत्यदर्शनात् ॥ २० ॥ आत्मा देहो मृतिर्मोक्षस्तत्त्वं भूतचतुष्टयम् । प्रत्यक्षमेव मानं चेत्याहुर्लोकायता मुहुः ॥ २१ ॥ विज्ञानं क्षणिकं सोपप्लवसंतानरूपकम् । निरुपप्लव सर्वज्ञ संतानो जीव ईश्वरः ॥ २२ ॥ जीवातुभूतस्य कामशास्त्रस्य कथं तथात्वमिति चेद्वैराग्यद्वारैवेत्याशयेनोक्तप्रक्रियया फलितं व्युत्पादयति — इच्छोपशम एवेति । अतः उक्तयुक्तेः अव्यवधानत इति च्छेदः । सुदृशां पण्डितानां । पक्षे मृगाक्षीणाम् । स्वरूपेति । स्वानन्दान्धेरित्यर्थः । पक्षे सर्वावयवसौन्दर्यहर्षोदधेरिति यावत् । अव्यवधानतः साक्षाद्यद्वन्मुकुर आदर्शो व्यञ्जकस्तद्वयञ्जक इत्यन्वयः । तथाचोक्तं महिम्न`स्तवव्याख्याने श्रीमधुसूदनाचार्यैः । तत्र वात्स्यायनेन पश्चाध्यायात्मकं कामशास्त्रं प्रणीतं तस्य च विषयवैराग्यमेव प्रयोजनमिति ॥ १९ ॥ एवं निरुक्ताद्वैतसरणि वादिवैमत्यवशादसंभावयंस्तद्दर्शयितुं तां किंचिदङ्गीकरोति – बाढ - मिति । इदमर्धाङ्गीकारेऽव्ययम् । तत्र हेतुं वदंस्तदेवासंभावनं सूचयति— यदीति । उक्ताश्वा यथेत्यादि चतुःश्लोकी प्रतिपादितेत्यर्थः दसंभवसूचनमित्याशङ्कायां सप्रतिज्ञं तत्र हेतुमाह - सैवेति । विप्रतिपना संदिग्धा । वादीति । विमतस्य विवादग्रस्तस्य भावो वैमत्यं वादिनां चैमयं तस्य यद्दर्शनं अनुभवनं तत इत्यर्थः ॥ २० ॥ ननु के ते वादिन इत्यतः प्रथमं चार्वाकापरनामकलोका यतमतमुपन्यसति - आत्मेति । तदुक्तं वेदान्तकल्पलतिकायाम् । तत्र लोकायतिकास्तावत्प्राकृतलोकानुसारिणो मनुध्यत्वादिविशिष्टभूतचतुष्टयसंघात एव चैतन्यं मन्यमाना नानागमपुराणानुमानादिमानान्तरप्रसिद्धमपि देहादिव्यतिरिक्तं चेतनं बन्धमोक्षभागिनमशुद्धचुद्धयोऽपलपन्ति नाप्रत्यक्षं प्रमाणमिति वदन्त इति ॥ २१ ॥ ननु यदि प्रत्यक्षभिन्नं प्रमाणमेव नास्तीति चेत्तर्हि चार्वाकस्य तव भोजनादावपि प्रवृत्तिर्न स्यात् । इष्टसाधनताज्ञानाभावात्प्रवृत्तित्वावच्छिन्न कार्यतावच्छेदकावच्छिन्नं प्र तीष्टसाधनत्वावच्छेदकावच्छिन्नज्ञानस्यैव कारणताया नियतत्वाचेत्यादियुक्त्या निरुक्तमतस्य दुष्टत्वादनुमानस्यापि प्रामाण्यवादिनां बौद्धानां मतचतुष्टयं स्पष्टयन् प्रथमं योगाचाराख्यस्य विज्ञानवादिनो बुद्धशिष्यविशेषस्य मतमाह - विज्ञानमिति द्वाभ्याम् । सोपप्लवसंतानरूपकं उपप्लवः सकलो रागद्वेषादिरूपः प्रपञ्चोपसर्गस्तेन सहितो यः संतानः प्रवाहः स एव रूपं आकारो यस्य एतादृशं क्षणिकं प्रतिक्षणविनश्वरं विज्ञानं बुद्धयाख्यं विशिष्टं ज्ञानमेव जीवस्तथा तदेवोक्तरूपं क्षणिकविज्ञानमेव निरुपप्लवसर्वज्ञसंतानः निर्गतः उपप्लवः निरुक्तोपसर्गो यस्मादेतादृशो यः सर्वज्ञः निखिलवित्स चासौ संतानः प्रवाहश्चेति तथा निरुक्तसंतानरूपं ० [ पूर्वार्ध
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy