________________
दक्षिणावर्तकम्बुरत्नम् ४] सरसामोदव्याख्यासहितम् ।
श्वा यथा चर्वयन्नस्थि ततः स्वमुखशोणितम् । मत्वा तदीयं रमते तद्वियोगे च खिद्यति ॥ १६ ॥ तथैवानादिसंस्कारैर्जीवः शब्दादिकं भजन् । तल्लाभेन तदिच्छाया ध्वंसेऽन्तर्मुखमानसे ॥१७॥ प्रतिबिम्बितमानन्दं ब्रह्मैवात्मानमद्वयम् । तदीयत्वेन मत्वाथ सुखदुःखे व्रजत्यलम् ॥१८॥ इच्छोपशम एवातो व्यञ्जको व्यवधानतः ।
सुदृशां मुकुरो यद्वत्स्वरूपानन्दवारिधेः ॥ १९ ॥ भूतिप्रकाशे श्रीमद्विद्यारण्यगुरुचरणाः प्रकृतश्रुतिव्याख्यानावसर एव–'सूढस्य मधुरादिः स्याद्रसो ब्रह्मविवेकिनः । मधुरादिभुगानन्दी ब्रह्मविच्च तथा सुखी' इति ॥ १५ ॥ नन्वेवं यदि ब्रह्मानन्द एवोक्तोपाध्यवच्छिन्नो रसपदवाच्यश्चेत् 'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति काव्यप्रकाशमूले, तथा “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः'इति भरतसूत्रेऽपि कथं तस्योत्पत्तिरुक्ता । ब्रह्मानन्दरूपस्य तस्य 'जहात्येनां भुक्तभोगामजोऽन्यः' इति श्रुतेरनादित्वेनोत्पत्तिशून्यत्वान्न चोपहितस्य तस्य घटाकाशवत्सापि संभवतीत्यपि वाच्यम् । तथापि ब्रह्मानन्दरूपस्य रसस्य सिद्धान्ते जीवानां स्वरूपत्वेन तदर्थं तेषां बहिरप्रवृत्त्यापत्तेरित्याशङ्कोपशमनार्थ गूढाभिसंधिः प्रथमं दृष्टान्तमुपक्षिपति-श्वा यथेति ॥ १६ ॥ अथ दार्टान्तिके योजयन् गूढाभिसंधिमुद्घाट्योक्ताशङ्कां समाधत्ते-तथैवेति युग्मेन । शब्दादिकमिति । शब्दस्पर्शरूपरसगन्धाभिधं विषयजातमित्यर्थः । भजन्सेवयन् । तल्लाभेन तस्य शब्दादेविषयस्य यो लाभः प्राप्तिस्तेनेत्यर्थः । तदिच्छायाः शब्दादिवाञ्छायाः ध्वंसे नाशे सतीत्यर्थः । अन्तर्मुखमानसे परावृत्तचित्तरूपोपाधाविति यावत् ॥१७॥प्रतिबिम्बितमिति । यथा निश्चलनिर्मले जले आकाशं स्पष्टं प्रतिफलति तद्वदित्यर्थः ॥ १८ ॥ एवं तर्हि निरुक्तदृष्टान्तवशात्कान्ताद्यालम्बनविभावादीनां रसव्यञ्जकत्वं भ्रान्त्यैव। वस्तुतस्तु प्रत्यगभिन्नाद्वैतब्रह्मरूपानन्दस्यैव रसत्वादिच्छाध्वंसस्यैव रसत्वादिच्छाध्वंसस्यैवोक्तरीत्या तयञ्जकत्वाचेति सिद्धम् । तत्तु पूर्वाचार्यतात्पर्येण सह मुतरां विरुद्धमेवेति चेत्सल्यम् । पूर्वाचायस्त्वलंकारशास्त्रप्रक्रियानुरोधादेव लोकिकदृष्टया तथोक्तमिव भाति । विचारे क्रियमाणेन्ततो गत्वा तेषामप्येतदेव संमतम् । ननु तर्हि तीर्थकारैरप्येतदेवाद्वैतमतं कुतो नोक्तमिति चेद्गुडजिबिकान्यायेन स्थूलारुन्धतीन्यायेन च मूढजनानां श्रुतियुवतिकबरीभारनिगूढे चिद्रत्ने झटिति दृढतरं प्रबोधासंभवात्परंपरया तत्र तेषां प्रवेशनार्थमेवेति गृहाण । अतएवोकं हरिणा-'उपायाः शिक्ष्यमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते' इति । सर्वेषां शास्त्राणामद्वैतात्मन्येव पर्यवसानं त्वत्रैवाने संक्षेपतो वक्ष्यते । नचास्त्वन्यशास्त्राणां तथात्वं, प्रकृतालंकारादिशास्त्र