________________
छंदोनुशासन
१३
66
महिषस्या हितोसू नहार्षीत्” इति । शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोपि वक्रश्चक्रेणाकारि किं ते" इति । अत्र हि स्वरस्य परादिवद्भावे व्यंजनमपि तद्भक्तत्वात्तदादिवद्भवति । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ इत्यतादिवदभावविधावपि संबध्यते । तेन " अस्या वक्त्राब्जवजित पूर्णे दुशोभं विभाती” त्येवंविधा यतिर्न भवति । द्रष्टव्यो यतिचिंतायां याद्यादेशः ग्रादिवत् ॥ यथा “ अच्छिन्नप्रसराणि नाथ भवतः पातालकुक्षौ यशांस्यद्यापि क्षपयंति कोकिलकुलच्छाया सपत्नं तमः ” विततघनतुषारक्षोदशुभ्रासु दूर्वास्वविरलपदमालां श्यामलामुल्लिखत " इति । नित्यं प्राक्पदसंबद्धाश्वादयः प्राक्पदतवत् । चादिभ्यः पूर्वं यतिर्न कर्तव्येत्यर्थः । यथा स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात् " इति । नित्यं प्राक्पदसंबद्धा इति किं अन्येषां पूर्वोतवद्भावो माभूत् यथा “ मंदायंते न खलु सुहृदामभ्युपेतार्थकृत्या " इति " इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे " इति ।। परेण नित्यसंबद्धाः प्रादयश्च परादिवत् । प्रादिभ्यः पराः परा यतिर्न भवतीत्यर्थः । दुःखं मे प्रक्षिपति हृदये दुःसहस्त्वद्वियोग इति । परेण नित्यसंबद्धा इति किं । अन्येभ्यः परापि यतिर्यथा स्यात् श्रेयांसि बहुविघ्नानि भवति महतामपि । अयंच चादीनां प्रादीनां चैकाक्षरत्वेनैकाक्षराणामेव पदान्तयतावंतादिवद्भाव इप्यते, नत्वनेका क्षराणां पदमध्ययतौ, तन्न हि पदमध्येऽपि चामीकरादिविव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनां यथा " प्रत्यादेशादपिच मधुनो विस्मृतभ्रविलासं " इति । प्रादीनां यथा "दूरारूढप्रमोदं हसितमिव परिस्पष्टमासां सखीभि " रिति । तदेतत्सर्वं श्रव्यपदेनैव गतार्थमिति न सूत्रितं । अनिर्दिष्टयतिकेपि च छंदसिं श्रन्यैव यतिः करणीया, न पुनरेवं यथा “ तेन शशिमुखि गतेन सखि किं प्रियेण कुरु मानमपि तस्मिन् स तब वरतनु समदनः स्वयमेव समेति चरणयुगं " इति । तथाहि " अबह्नर्थापि मधुरा मनो हरति भारती । तमोनिचयसंकाशा मत्तनादेव कोकिलेति " । ० ज्यादि
CG
""
"C
"
66