________________
छंदोनुशासन
“
(6
स्पष्टविभक्तिकत्वं च विशेषः । यथा “ नमस्यामि सदोद्भूतमिंधनीकृतमन्मथं । ईश्वराख्यं परंज्योतिरज्ञानतिमिरापहं" । अत्रेश्वरमित्यस्य पूर्वमका रेण संधिर्न कर्तव्यः । स्पष्टविभक्तिकत्वं चात्रैव, नत्वेवं यथा " सुरासुरशिरोरत्नस्फुरत्किरणमंजरी | पिंजरीकृतपादाब्जद्वंद्वं वंदामहे शिवं " । गादिच्छिन्नपदांते च लुप्तालुप्तविभक्तिके । यथा “ उत्तुंगस्तनकलशद्वया नतांगी लोलाक्षी विपुल नितंब शालिनी च " । "यक्षश्चक्रे जनकतनयाखान पुण्योदकेषु " इति । लुप्त लुप्तविभक्तिक इति मतिः सर्वत्र पादांते इत्यनेनापि संबध्यते । यथा नमस्तुं गशिर चुंविचंद्र चामरचारवे । त्रैलोक्यनगरारंभमूलस्तंभाय शंभवे " इति । तथा " वशीकृतजगत्कालं कंठेका लं नमाम्यहं " इति । कचित्त पदमध्ये - ऽपि गकारादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥१॥यथा पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशाविति ” तथा "कूजत्कोर्याष्टकोलाहलमुखरभुवः प्रांतकांतारदेशा इति " तथा " हासो हस्तामसं वाहनमपि तुलिताद्रींद्रसारद्विषोस्येति " "वैरिश्वानां तथोच्चारितचतुरऋचां वाननानां चतुर्णामिति ' " षङ्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः इति । गकारादाविति किं पदमध्ययतिः पादांते मा भूत् । यथा प्रणमत भवबंधक्लेशनाशाय नारायणचरणसरोजद्वंद्वमानंदहेतुमिति " । पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथा ' एतस्या गंडतलममलं गाहते चंद्रकक्षामिति " " एतासां राजति सुमनसां दाम कंठावलंबीति " "सुरासुरशिरोनिवृष्टचरणारविंदः शिवः " इति । पूर्वान्तवत्स्वरः संधौ कचिदेव परादिवत् । योयं पूर्वपरयोरेकादेशः स्वरः संधौ विधीयते स क्वचित्पूर्वस्यांतवद्भवति क्वचित्परस्यादिव - दुभयादेशत्वात् । यथा पित्रोः पुत्रः पितुश्च मातुश्च भवति तत्र पूर्वतवद्भावो यथा । " स्यादस्थानोपगतयमुनासंगमेवाभिरामा" "जंभारातीभकुंभोद्भवमिव दधत" इति । तथा "दिक्कालाद्यनवच्छिन्नानंतचिन्मात्रमूर्त्तये " इति । परादिवद्भावो यथा “ स्कंधे विध्याद्विबुद्ध्या निकषति
""
८८
८८
२२