________________
छंदोनुशासन
<<
।
- कनकमयसुतनु जिनवर वृषभ जय । ० दीर्घप्लुतौ ॥ द्विमात्रत्रिमात्रौ वर्णो संशो भवतः वौ च । • स द्विमात्रः ॥ स ग्संज्ञो द्विमात्रो भवति, एकमात्रेऽसती मात्रारोप्यते, त्रिमात्रे सती निराक्रियते । दोती पदान्ते प्राकृते इस्वो वा ॥ पदांते वर्तमानावेकारौकारो प्राकृतभाषायां ह्रस्वौ वा भवतः । यथा पञ्चसगयव रुम्मूलिआए उड्डणससिविहंगाए | धवलाई गलंति निसालयाए नक्खत्तकुसुमाई || उअ ओमरायमरगयसंवलिआ णहयलाउ ओयरइ । णहसिरिकंठब्भठ्ठ व्व कंठिआ कीर रिछोला " हूँ हि इत्येतयोर्हस्वत्वं शब्दानुशासने निर्णीतमिति नेोच्यते । ● तुयशः पादोऽविशेषे || छंदसश्चतुर्थो भागः पादसंज्ञः अविशेषे सामान्याभिधाने । यत्र तु द्विपदी पंचपदी षट्पद्यष्टपदी चेति विशेषाभिधानं तत्र द्वितीयाद्यशोपि पादः । वृत्तं ॥ प्राग्मात्राछंदोभ्यो यदभिधास्यते तद्वृत्तसंज्ञं ज्ञेयं । तच्च स्थिरगुरुलध्वक्षरविन्यासमिष्यते पाटनसंयोगयोरभावात् । मात्राछंदांसि तु जातिरिति प्रसिद्धानि । यदाहुः " पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा " वृत्तंच समार्द्धसमविषमभेदात्त्रेधा । तत्क्रमेण लक्षयति समैः पादैः समं ॥ पादैश्चतुर्भिः तुल्यलक्षणैः समं वृत्तं । समार्धमर्धसमं ॥ यस्य तुल्ये अर्धे ऽर्धसमं वृत्तं । ० अन्यद्विषमं || आभ्यामन्यद्विषमं वृत्तं । ० श्रव्यो विरामो यतिः । विरमणं विरामो विश्रामः स श्रुतिसुखो यतिसंज्ञः । साच तृतीयांतेषु गघादिनिर्द्देशेषूपतिष्ठते । गादयश्च साकांक्षत्वात् यतिरित्यनेन संबध्यते, गाद्यवच्छिन्नरक्षरैर्यतिः क्रियत इत्ययमर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषत्पठ्यते " यतिः सर्वत्र पादान्ते श्लोकार्थे तु विशेषतः । गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्ति के " तत्र यतिः सर्वत्र पादान्ते, यथा " नमोस्तु वर्द्धमानाय स्पर्धमानाय कर्मणा । तज्जयावाप्तमोक्षाय परोक्षाय कुतीर्थिना मिति " न पुनरेवं यथा " नमस्तस्मै महादेवाय शशांकार्द्धधारिणे " इति श्लोका तु विशेषत इत्यत्र संधिकार्याभावः
●
०
।
O
o
२१