________________
छंदोनुशासन हस्वो मात्रिको वर्णो संज्ञो भवति । सच प्रस्तारे ऋजुः स्थाप्यः । ० वांते ग्वक्र ।। पादांते वर्तमानो हस्वो संज्ञो भवति । सच प्रस्तारे वक्रः स्थाप्यते । वेति व्यवस्थितविभाषा, तेन यवौं ग्लौ समानीत्यादावपवादस्तत्र संज्ञो न भवति । वंशस्थादौ च पादांते लघोर्गुरुत्वं न भवति ॥ यदाह "वंशस्थकादिचरणांतनिवेशितस्य, गत्वं लघोर्नहि तथा श्रुतिशर्मदायि । श्रोतुर्वसंततिलकादिपदान्तवतिलो गत्वमत्र विहितं विबुधैर्यथा तत्" ध्रुवासु विवक्षावशाद्गुरुत्वं लघुत्वं च। यदाह "ओजसंख्या यदाभीष्टा ध्रुवासु विरतौ तदा । गो लता युग्मसंख्ये तु दिरतो गुरुता लघोः” तथा “गुरुअच्चिअ एक्लहू विरामविसयम्मि क्सिमसंखाए । जमललहू लहुअच्चिअ, समसंखासंठिओ होइ" । ० -क- पविसर्गानुस्वारव्यंजनालादिसंयोगे ।। जिह्वामूलीये उपध्मानीये विसर्जनीयेऽनुस्वारे व्यंजने हादिवर्जिते संयोगे च परे हस्वोऽपि गो भवति वक्रश्च । अहादीति समस्तव्यस्तसंग्रहात् ३सयोगे हसंयोगे संयोगे च न गुरुः । आदिशब्दात् यथादर्शनं । हादिसंयोगे च यथा "स्पृष्टं त्वयेत्यपहियः खलु कीर्तयति" तथा " तव हियापहियो मम हिरभृच्छशिग्रहेपि द्रुतं न धृता ततः। बहलभामरमेचकतामसं मम पिये क सम्मेष्यति तत्पुनः"। "धनं प्रदानेन श्रुतेन कर्णावित्यादि” । “लीलासिताब्जमुत दर्पणमातपत्रं किं दंतपत्रमथ किंशुकमौलिरत्नं । किं चामरं तिलकबिंदुरथेंदुबिंबमेतद्दिवो निहनुतदीप्ति मुदे न कस्य" प्राकृतेपि यथा “जह हाउ
ओइप्णे अत्भुत्तमुल्हसिअमंसुअद्धं तं । जहयं ण ण्हाओसि तुम सच्छे गोलानईतूहे" अन्भुतमभिषिक्तं । तूहं तीर्थ । तथा । वोद्रहद्रहम्मि पडिआ कुवलयखित्तद्रहि” इत्यादि । एप्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हेतुः । तीव्रप्रयत्ने तु भवत्येव गुरुः । यथा “वहभारेषु केशा"नित्यादि । केचित्तु -क- पयोरपि परत्र स्थितयोः पूर्वस्य लघोर्गुरुत्वं नेच्छंति यथा "प्रणतसुरवरधरणनृप परमविजितमदमदनजननमरण सकलुषजनसलिलकतक