________________
छंदोनुशासन
॥ अहं ॥ शब्दानुशासनविरचनानंतरं तत्फलभूतं काव्यमनुशिष्य तदंगभूतं छंदोनुशासनमा रिप्समानः शास्त्रकार इष्टाधिकृत देवतानमस्कारपूर्वकमुपक्रमते । • वाचं ध्यात्वाईत सिद्धशब्दकाव्यानुशासनः ॥ काव्योपयोगिनां वक्ष्ये छंद सामनुशासनं १ अर्हद्भिः कृता । कृत ( सि ६-३-१९२ ) इत्यण्यार्हती वाकू द्वादशांगं गणिपिटकं । यद्यपि द्वादशांगी सूत्रतो गणधरैर्निर्ममे, तथापि तदर्थस्यार्हदुपदिष्टत्वादाहतीत्युच्यते । यदाह " अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणमिति' । सूत्रमपि वाचित्यार्हत्प्रभावादेव गणधरैर्ग्रथ्यते इत्या हत्येव वागिति न विरोधः । सिद्धं प्रतिष्ठां प्राप्तं शब्दानां नामाख्यातादिभेदानां प्रकृतिप्रत्ययादिविभागेन, काव्यस्य च गुणालंकारादिविवेचनेन, पूर्वाचार्यशासनस्यानु पश्चात् शासनं संदर्भों यस्य स सिद्धशब्दकाव्यानुशासनः । ध्यानं प्रणिधानं तच्चेह मानसो नमस्कारः । काव्योपयोगिनामिति गद्यकाव्ये न छंदसामुपयोग इत्यर्थात्पद्यं काव्यमिह गृह्यते, उपयोगः साहायकं वृत्तसंशयच्छेदादिना, यदाह " छंदोविचितेर्वृचसंशयच्छेदः " । इदमभिधेयप्रयोजनं । काव्योपयोगाभावाच्च न वैदिकानि छंदांसीह लक्षयिष्यन्ते । छंदसामिति कर्मणि षष्ठी | चंदनादाहादनात् छंदांसि वर्ण मात्रा नियमितानि वृत्तानि तेषां अनुशिष्यतेऽनेनेति अनुशासनं शास्त्रं । वक्ष्य इति तृतीयत्रिकप्रयोगात् अहमिति लभ्यते । ननु भवतु वाचं ध्यात्वार्हतीमिर्तीष्टदेवतास्तुतिः, अधिकृतदेवतास्तुतिः तु कथमियं, न ह्यविवृतानि छंदांस्यहेत्प्रर्णतानि । मैवं वोचः । नहि सूक्तं किंचिदार्हतमुपदेशमंतरेण जगत्यस्ति । यत् श्रीसिद्धसेनः । 'सुनिश्चितं नः परतंत्रयुत्तिषु स्फुरंति याः काश्चन सूक्तसंपदः । तवैव ताः पूर्वमहार्णवोद्धता, जगत्प्रमाणं जिनवाक्यविष इति सर्वमवदातं । अनेन च श्लोकेन शब्दकाव्यच्छंदोऽनुशासनानां एककर्तकत्वमुक्तं । सर्वादिमध्यांत ग्लौ त्रिकौ नौ भ्यो ज्रौ स्तौ वर्णगणाः ॥ सर्वादिमध्यांतौ गुरुलघु ययोस्तौ यथाक्रमं नौ भ्यौ जौ
CC
99
१८