________________
छंदोनुशासन
१७
चूषौ चावमृतम् । ५० । चऌदौ सिंहपदम् । ५१ । तद्दीर्घकं ढजैः । ५२ । षः कलकण्ठीरुतम् । ५३ । षाचूदाः शतपत्रम् । ५६ । चलता वतिदीर्घं ढजैः । ५५ । षाचूता मत्तमातङ्गविजृम्भितम् । ५६ । चत्वारिंशत्कला एकद्वयधिका वा मालाध्रुवकम् । ५७ । चो विजया । ५८ । पो रेवका । ५९ । षो गणद्विपदी । ६० । चतौ स्वर - द्विपदी । ६१ । पदावप्सराः । ६२ । अष्टौ कला द्विपदी । ६३ । चौ करिमकरभुजा । ६४ । चलदलाश्चन्द्रलेखा । ६५ । पतौ मदनविलसिता । ६६ । चपौ जम्भेदिका । ६७ । पचौ लवली । ६८ । सप्त कला दलौ चामरपुरसुन्दरी । ६९ । षचौ काञ्चनलेखा । ७० । पौ चारुः । ७१ । तषताः पुष्पमाला । ७२ । द्विपदीप्रकरणम् । गाथात्रानुक्तम् । ७३ । इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ द्विपदीव्यावर्णनो नाम सप्तमोऽध्यायः ।
॥ अथ प्रस्तारादयः षट् प्रत्ययाः । १ । प्राक्कल्पाद्यगोऽधो लः परमुपरिसमं प्राक् पूर्वंविधिरिति समयभेदकृद्वज्र्ज प्रस्तारः । २ । ग्लावधोऽधो द्विर्द्विरतः । ३ । नष्टाङ्कस्य दले लः सैकस्य गः । ४ । नष्टाङ्के गणैहृतशेषसंख्यो गणो देयो राशिशेषे लब्धं सैकम् । ५ । उद्दिष्टेऽन्त्यल्लाद्दिवर्गेकं त्यजेत् । ६ । आद्यमन्त्येन हतं व्यधस्तनम् । ७ । वर्णसमानेककान् सैकानुपर्युपरि क्षिपेत् मुक्त्वान्त्यं सर्वैकादिगलक्रिया । ८ । आद्यभेदानधोऽधो न्यस्य परैर्हृत्वाग्रे क्षिपेत् । ९ । ते पिण्डिताः । १ वर्णसमद्विकहतिः समस्य । ११ । ते द्विगुणा द्विहीनाः सर्वे । १२ । समकृती राश्यूना अर्धसमस्य । १३ । तत्कृतिर्विषमस्य । १४ । विकल्पहतिर्मात्रा वृत्तानाम् । १५ । अङ्कान्त्योपान्त्ययोगः परे परे मात्राणाम् । १६ । द्विघ्नानेकाध्वयोगः । १७ । इत्याचार्यश्री हेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्तौ प्रस्तारादिव्यावर्णनो नामाष्टमोऽध्यायः । इति कलिकालसर्पज्ञानवद्य चतुःशासनशासन विधात्र तिगम हिमनिलय श्रीमद्धेमचन्द्राचार्यविरचितं छन्दोऽनुशासनं नाम चतुर्थमनुशासनं संपूर्णतामगादिदम् ||
२/२