________________
१५९
छंदोनुशासन द्विगुणीकृतः पटकः, स एकोनः पञ्चकस्तदीदृशं पञ्चमं वृत्तमिति । अथ जातीनामुदिष्टमाह । ७ ०आद्यमन्त्येन हतं व्यधस्तनम् । स जयति कुमारपालः, श्रीमानवनिपतिशतविनुतचरणः । निर्मलयशसा धवलितभुवनश्चक्रधरतुल्यौजाः॥ , ।१। केनचिदियमार्या कतिथीती पृष्टे, अस्या गणान् संस्थाप्य तदधश्चतुष्पञ्चादिकां विकल्पसंख्यां यथासंभवं लिखेत् । ततो गणितक्रमेण आद्यमन्त्येन हत्वा व्यधस्तनमिति तत्र दृष्टविकल्पादधस्तान् विकरुपान् राशेळपोरा संख्यां लब्धामेतावतिथं वृत्तमिति निर्दिशेत् । कथं, अन्ते न्यस्तस्यार्द्धगणस्याविकल्पत्वादेकमकमधो निधाय सप्तमगणस्य चतुर्विकल्पाच्चतुर्भिर्हन्यात् , जातानि चत्वारि, इह दृष्टः सर्वगुरुस्तस्याधस्तनानन्तगुर्वादिगुरुसर्वलघूस्त्रीन् अस्माद्राशेः पातयेत् , शेषमेकम् । षष्ठश्चाविकल्पः पञ्चमे चतुभिर्हते अधस्तने चैकस्मिन् सर्वलघौ त्यक्ते त्रीणि, चतुर्थे पञ्चभिर्हतेषु पञ्चदश, अधस्तनेषु त्रिषु त्यक्तेषु द्वादश, तृतीये चतुभिर्हतेषु अष्टचत्वारिंशत् , त्याज्यं नास्ति। द्वितीये पञ्चभिर्हतेषु त्रिषु त्यक्तेषु द्वे शते सप्तत्रिंशदधिके, प्रथमे चतुभिर्हतेषु एकस्मिन् त्यक्ते नव शतानि सप्तचत्वारिंशदधिकानि, पूर्वार्द्धान्त्या गणश्चाविकल्पः । सप्तमे चतुभिर्हतेषु सप्तत्रिंशच्छतान्यष्टाशीत्यधिकानि। त्याज्यं नास्ति। षष्टे द्वाभ्यां हतेषु पञ्चसप्ततिः शतानि षट्सप्तत्यधिकानि । त्याज्यं नास्ति । पञ्चमे चतुभिर्हतेषु त्रिंशत्सहस्रास्त्रीणि शतानि चतुरुत्तराणि । त्याज्यं नास्ति । चतुर्थे पञ्चभिर्हतेषु चतुर्ष त्यक्तेषु लक्षमेकभेकपञ्चाशत्सहस्राः पञ्च शतानि षोडशाधिकानि । तृतीये चतुभिर्हतेषु त्रिषु त्यक्तेषु षट् लक्षाः षष्टिशतानि एकषष्टयधिकानि । द्वितीये पञ्चभिर्हतेषु द्वयोस्त्यक्तयोस्त्रिंशल्लक्षास्त्रिंशत्सहस्रास्त्रीणि शतानि व्युत्तराणि । प्रथमे चतुभिर्हतेषु त्याज्याभावादेका कोटिरेकविंशतिलक्षा एकविंशतिः सहस्राः द्वे शते द्वादशोत्तरे एतावतिथीति निर्दिशेत् । यदाह "गणानुद्दिष्टगाथायाः, संस्थाप्य तदधो लिखेत् । चतुष्पञ्चादिकां संख्यां, स्थानस्थानोचितां ततः ॥१। हत्वा हत्वाद्यमन्त्येन चोपरिस्थगणादधः ।