SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५८ छंदोनुशासन विकल्पत्वाच्चतुभिर्हरेत् । लब्धं वे शते षट्त्रिंदधिके । राशिशेष त्रीणीति तृतीयविकल्पमादिगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा द्वितीयगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् लब्धं सप्तचत्वारिंशत् , राशिशेषं द्वे इति द्वितीयविकल्पमन्तगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा तृतीयगणस्य चतुर्विकल्पत्वाच्चतुर्भिर्हरेत् । लब्धं द्वादश शेषं चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत् । ततश्चतुर्थगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् । लब्धं द्वे राशिशेषं द्वे इति द्वितीयविकल्पमन्तगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् लब्धं शून्यम् । राशिशेषं त्रीणीति तृतीयविकल्पमादिगुरुं न्यसेत् । षष्ठो नित्यविन्यासो लघुरेव । ततो लब्धं सैकं कृत्वा सप्तमगणस्य चतुर्विकल्पत्वाच्चतुभिर्ह रेत् । लब्धं शून्यं । शेषमेकमिति प्रथमविकल्पं सर्वगुरुं न्यसेत् अन्ते नित्यविन्यासो गुरुरवे । स्थापना यथा- ।।।। । ।, ss, ss, ।।।।। ।।।। ।।।।, 5।।, 5॥, ।। s, ।।।।, ॥s, 5।।।, s, ss, १२ १२ १२ १२ संख्यतमैषार्या । यदाह " नष्टाङ्के प्रथमं भक्ते, गणाङ्केश्चतुराादकैः शेषसंख्यो गणो देयो, लब्धं कुर्यात्सरूपकम् ॥ १ ॥ पुनर्भजेत्पुनर्लब्धं सरूपं शेषसंख्यया । गणान् दधाद्गते शेषे, गाथायाः प्राक् गणक्रमः " एवमन्येष्वपि मात्राच्छन्दस्सु नष्टविधिज्ञेय इति नष्टानयनम् । अथोद्दिष्टस्य संख्यापरिज्ञानार्थमाह । ६ उद्दिष्टेऽन्त्याल्लाद्विर्गेकंत्यजेत् । केनचित् प्रस्तारोक्ते वृत्ते कतिथमित्युद्दिष्टे यथा ।एवं लगेषु स्थापितेष्वन्त्याल्लादारभ्यार्थात्पश्चानुपूर्व्याधो द्विरिति द्विगुणोऽङ्कः कार्यः । गचेदेकं त्यजेत् , गुरोरधो द्विगुण एकोनः कार्यः । अयमर्थः-अन्त्यस्य लस्याधो योऽकस्तं द्विगुणयेत् , स च निराकाराया आवृत्तेरसंभवात्प्रथमातिक्रमे कारणाभावादेक एव परिशिष्टो द्विगुणीकृतो द्विको जातस्ततस्तस्मादपनीय तत्पूर्वस्य गुरोरधो निधाय द्विगुणीकृतश्चतुष्कः स एकोनः कृतस्त्रिकः पुनस्तत्पूर्वस्य गुरोरधो निधाय
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy