________________
छंदोनुशासन
१५७ षट् तदर्ते गुरुः, पुनस्त्रयाध न ददति सैकाश्चत्वारस्तदढे गुरुः, द्वयोरधर्ममेक इति लघुरिति । द्वौ गावेको ल ईदृशं पञ्चम वृत्तं 55। इति समवृत्तनष्टविधिरुक्तो । जातीनां नष्टविधिरुच्यते ॥ ५ नष्टाङ्के गणैर्हृतशेष- ' संख्यो गणो देयो राशिशेषे लब्धं सैकम् । नष्टस्य वृत्तस्या के स्थापिते गणैर्गणविकल्पैहते यच्छेषं तत्संख्यो गणो देयः । यत्र तु राशिशेष भवति, तत्र लब्धं सैकं कार्यम् । ततः पुनस्तस्मिन्नु तरगणविकल्पैर्हते शेषसंख्यो गणो देयः । यथा आर्याप्रस्तारे एका कोटिरेकविंशतिर्लक्षा एकविंशतिः सहस्रा द्वे शते द्वादशोत्तरे इत्येतावत्संख्यं वृत्तं नष्टं कीशमिति पृष्ट प्रथमगणश्चतुर्थवि(वि)कल्प इति चतुभिनष्टाकं हरेत् , लब्धं त्रिंशल्लक्षा स्त्रिंशत्सस्रास्त्रीणि शतानि व्युत्तराणि, शेषं चत्वारीति सद्विकल्पेषु चतुर्थ सर्वलघु न्यसेत् ।।।।] द्वितीयो गणः पञ्चविकल्प इति पञ्चभिर्हरेत् । लब्धं षट् लक्षाः षट् सहस्राः षष्टयधिकाः, राशेश्च हताः शेषं त्रीणीति तद्गणविकल्पेषु तृतीयं मध्यगुरुं न्यसेत् , ततो राशिशेषे लब्धं सैकं इति वचनाल्लब्धं सैकं कृत्वा तृतीयगणश्चतुर्विकल्प इति चतुर्भिर्हरेत् , लब्धमेकं लक्षमेकपञ्चाशत्सहस्राः पञ्च शतानि पञ्चदशोत्तराणि । राशिशेषमेक इति तद्विकल्पेषु प्रथमं सर्वगुरुं न्यसेत्, लब्धं सैकं कृत्वा चतुर्थगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् लब्धं त्रिंशत्सहस्राः त्रीणि शतानि व्युत्तराणि । राशिशेषमेक इति प्रथमविकल्पं सर्वगुरुं न्यसेत् , ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् , लब्धं पञ्चसप्ततिः शतानि षट् सप्तत्यधिकानि । शेष चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत्, ततः षष्ठस्य द्विविकल्पत्वात् द्वाभ्यां हरेत् , लब्धं सप्तत्रिंशच्छतान्यष्टाशीत्याधिकानि, शेष द्वे इति द्वितीयविकल्पं सर्वलघु न्यसेत् । ततः सप्तमगणस्य चतुर्विकल्पत्वाच्चतुभिर्हरेत् । लब्धं नव शतानि सप्तचत्वारिंशदधिकानि । शेषं चत्वारीति चतुर्थविकल्पं सर्वलघं न्यसेत् , अन्ते नित्यविन्यासं गुरुं न्यसेत्, ततः सप्तमगणाल्लब्धं परार्द्धादिगणस्य चतु