________________
१५६
छंदोनुशासन गणापेक्षयैव द्वितीयगणलघोः पूर्वो लघुर्देयः । प्रथमश्च गणः सर्वगुरुरिति पूर्वविधिना गुर्वात्मक इति द्विगुरुर्गुर्वन्तश्च पञ्चमे भेदे प्रथमद्वितीयौ गणौ, ततः षष्ठसप्तमाष्टमेषु भेदेषु क्रमेण द्वितीयतृतीयचतुर्थभेदतुल्यः प्रथमो गणो, द्वितीयश्च गुर्वन्त एव, ततो नवमे भेदे द्वितीयगणगुरोरधो लघुस्ततः प्राक् पूर्वविधिरिति लघुपूर्वो गुरुः प्राक् देयस्तेन जगणस्तत्र सम्पन्नः । प्रथमश्च गुर्वात्मक उपरि तुल्यत्वं पुनः परेषां स्थितमेव यावद्विशतितमे भेदे गणद्वयं लघुरूपं संपन्न । इति द्वितीयो गणो विंशत्या निष्ठितः । तृतीयगणश्चतुर्भेद एकैको विंशतिकृत्वोऽशीत्या निष्ठितः । चतुर्थगणः पञ्चभेद एकैकोऽशीतिकृत्वश्चतुःशत्या निष्ठितिः । पञ्चमगणश्चतुर्भेद एकैकश्चतुःशतीकृत्वः षोडशशत्या निष्ठितः । षष्ठगणो द्विभेद एकैकः षोडशशतीकृत्वो द्वात्रिंशच्छत्या निष्ठितः । सप्तमगणश्चतुर्भेद एकैकोद्वात्रिच्छतीकृत्वो द्वादशभिः सहस्रैरष्टशत्युत्तरनिष्ठितः । अन्त्यो गुरुरेक एव एकेन गुणितं तदेवेति तावद्भिरेव निष्ठितः एवं निश्चितं पूर्वार्द्धम् । परार्द्धमपि गणविकल्पानिश्चित्य प्रस्तारयेत् । एवमन्येप्वपि मात्राछन्दःसु प्रस्तारो ज्ञेय इति । समवृत्तानां प्रकारान्तरेण प्रस्तारमाह ॥३ ०ग्लावधोऽधो द्विरितः । समवृत्तानां प्रस्तारे चिकीर्षिते प्रथमपङ्क्तौ यावसङ्ख्यापरिमाणमेकान्तरितावधोऽधो गुरुलघू स्थाप्यौ, अतः परं द्वितीयादिपङ्क्तिषु द्विगुणद्विगुणा गुरवो लघवश्चाधोऽधः स्थाप्याः । यथा व्यक्षरे छन्दसि प्रथमपङ्क्तौ एकान्तरिता गुरुलघवोऽष्टसंख्यां यावत् स्थाप्या, द्वितीयपक्तौ द्वौ द्वौ, तृतीयपङ्क्तौ चत्वारश्चत्वारः । इति प्रस्तार उक्तः । समवृत्तानां नष्टमाह ।। ४ नष्टाङ्कस्य दले लः सैकस्य गः। किंचिद्वृत्तं नष्ट चतुर्थ पञ्चमं वा, तत्समं यदि भवति तदा दलेऽधै कृते ल इति लघुर्लभ्यते पुनर्दले लघवो लभ्यन्ते, अथ वैषम्यात्संख्यार्द्ध न ददाति तदा सैकस्य ग इति सैकस्याङ्कस्य दले कृते गुरुर्लभ्यते, पुनस्तद्वत् नष्टवृत्तमुत्पद्यते । यथा अत्रैव व्यक्षरे छन्दसि पञ्चमं वृत्तं नष्टं, पञ्चार्द्ध न ददतीति सैका