________________
छंदोनुशासन यथा “ मणिकंचणरेहिअ । सुरसुंदरि जेहिअ ॥” ७१ ०पौ चारुः । द्वौ पञ्चमात्रौ चारुः । यथा चारुचंपयरुई । ओअ सोहइ जुअई ॥" ७२ ०तषताः पुष्पमाला । त्रिमात्रषण्मात्रत्रिमात्राः पुष्पमाला । यथा " एह ललिअदेह बाल । नाइ जाइफुल्लमाल " तोमरमित्यन्ये । एवमन्यां अपि त्रिंशन्मात्रापर्यन्त। अभ्यूह्याः । अप्रसिद्धाभिधानत्वात्तु नोक्ता । यदाह " चतुर्मात्रादिकत्रिशत्प्रान्तैरहि युगैः पुनः । एकानैकैरन्तवर्णैर्यमके द्विपदी विदुः द्विपदीप्रकरणम् । ७३ गाथात्रानुक्तम् । अत्र शास्त्रे यन्नोक्तं छन्दस्तगाथा संज्ञम् । यथा “दश धर्म न जानन्ति, धृतराष्ट्र निबोधनात् । मत्तः प्रमत्त उन्मत्तः, क्रुद्धः श्रान्तो बुभुक्षितः । त्वरमाणश्च भीरुश्च लुब्धः कामीति ते दश ॥ ७३ ॥ अत्र त्रिभिः षभिर्वा पादैः श्लोकः ॥
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती द्विपदीव्यावर्णनो नाम सप्तमोऽध्यायः ।
१ ०अथ प्रस्तारादयः षट् प्रत्ययाः। प्रस्तार्यत इति प्रस्तारो, वृत्तानां विस्तरतो विन्यासः, स आदिर्येषां प्रत्ययानां ते प्रस्तारादयः प्रतीतिजननात्प्रत्ययास्तेऽधिक्रियन्ते । ते च षट् । यदाहु " प्रस्तारो नष्टमुद्दिष्ट सर्वैकादिगलक्रिया । सङ्ख्या चैवाध्वयोगश्च षडेते प्रत्यायाः स्मृताः” । तत्र प्रस्तारमाह । २ प्राक्कल्पाद्यगोऽधो लः परमुपरि समें प्राक् पूर्वविधिरिति समयभेदकद्वज प्रस्तारः ॥ तत्राय क्रमः । पादेऽर्द्ध छन्दसि वा यावन्तो वर्णास्तावन्तो गुरवः प्रथमविकल्पे स्थाप्याः । यथा समवृत्तस्य त्र्यक्षरे पादे गुरुत्रयं 555, ततोऽस्य प्राक्कल्पस्यायो यो गुरुस्तस्याधो लघुः स्थाप्यः, ततः परमुपरि समं स्थाप्यं, यत्रोपरि गुरुस्तत्राधस्तादपि गुरुयंत्रोपरि लघुस्तत्राधस्तादपि लघुः यथा ऽ ऽ ऽ, Iss पुनः प्राक्कल्पाद्यगुरोरधो लघुः स्थाप्यः, परमुपरि सममिति वचनात्ततः