________________
छंदोनुशासन
१४७ कदाम्नी नवकदलीपत्रा चेत्यर्थः ॥ यतिः सैव । स्कन्धकसमा यथा "गयपत्त परिग्गह सुमणसविरहिअ फलवजिअ तरुखंधसम । कण्टय परिचारिअ गिरिकंदरगय तुह रिउ वसहिं विमुक्ककम ।" एवमितरयोरप्युदाहार्यम् ।। २२ ०चूपावायामकम् । सप्त चतुर्मात्राः पञ्चमात्रश्चेक आयामकम् । यथा “आयामयधवलत्तणगुणकलिए पेच्छिवि केअइदलि अलिविलसिरु। संभरि पिअनयणई विरहज्जरजज्जरि अगमणु मुज्झइ पहिउ चिरु॥" २३ तत्काञ्चीदाम अजैः । अजैरिति दशमिरष्टाभिश्च चेद्यतिस्तदा तदायामकं काञ्चीदाम । यथा “अंगय फुडिअ तुडिअ नवकंचुउगुण दलिउ कंचिदामु सनिअसणु । तहिं तुहगुणसवणिण ऊससिअंगिहि अप्पडिहयसासणु हू मयणु ।” २४ । रसनादाम ठजैः। ठजैरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा तदायामकं रसनादाम । यथा “तुह दंसणारंतिए सुन्दर मुद्धए सुणि जं किउ पञ्चल्लिउ । हारु निवि निवेसिउ रसणादामुवि थणसिहरोवरि घल्लिउ” । २५ । ०चूडामणिजैः । ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदायामकं चूडामणिः । यथा "बहुविहसमरंगणि खणिण नवनवजयसिरि जं पई परिणिज्जइ । निवचूडामणि तुह कित्तिहिं मंगलकारणि तं जगु धवलिज्जई ॥" २६ षचूतैः कृतान्यायामकादीन्युपात् । षण्मात्रेण चतुर्मात्रषटकेन त्रिमात्रेण कृतान्यायामकादीनि चत्वार्यपि उपात्पराणि भवन्ति । उपायामकं उपकाञ्चीदाम उपरसनादाम उपचूडामणिरित्यर्थः । यतिरपि सैव । तत्रोपायामकम् । यथा "तणुअंगिहिं लोअणनलिणिहिं उअ आयामिण केअइदलु निजिओ। वयणुल्लई कतिकडप्पिण तह मयलंछणमंडलु अवहत्थिओ।" एवमन्यान्यप्युदाहरणीयानि।। २७ ०चूदौ स्वमकम् । अष्टौ चतुर्मात्रा द्विमात्रश्च स्वप्नकम् । यथा "पिउ आइउ निवडिउ पइहिं सपणयवयणिहिं अणुणिवि माणु सुआविअ । इअ सिविणयभरि आलिंगिमि जाम्वहिं ताम्वहिं सहि हय कुक्कडि इडिअ ॥" २८ ०तद्भुजङ्गविक्रान्तं ठजैः। ठजैरिति द्वादशभिरष्टभिश्च