________________
छंदोनुशासन
१४३ शशाङ्कवदना । यथा “नवकुवलयनयण, ससंकवयण धण । कोमलकमलकर, उअ सरयसिरि किर ।। २६ ०चपदाश्चातौ वा मारकृतिः ॥ चतुर्मात्र पञ्चमात्रद्विमात्राः । चतुर्मात्रद्वयत्रिमात्रौ वा मारकृतिः । यथा "तुह मारमारकीदी, कपि एह नवल्लिअ । दूरि सबाभल्लि, जं हिअडइ सल्लिअ" ॥ २७ ०षचदाः चिर्वा महानुभावा । पण्मात्रचतुर्मात्रद्विमात्रा वा चगणत्रयं वा यत्र सा महानुभावा । यदा "जे निअहिं न परदोस, गुणिहिं जि पयडिअ तोस । ते जघि महाणुभावा । विरला सरलसहावा" ॥ २८ ०षचताश्चापौ पातौ वाप्सरोविलसितम् । षण्मात्रचतुर्मात्रत्रिमात्रावा, चतुर्मात्रद्वयपञ्चमात्रौ वा पञ्चमात्रद्वयत्रिमात्रौ, वा यत्र तदप्सरोविलसितं । यथा “पई ससिवयणिए विन्ममि, असिअ अच्छरविलसिअई। भुमइहिकिउ पाइक्कऊ, मयणु मोहिअजणमणइं" ।।२९ ०षचाश्चिदौवा गन्धोदकधारा । पण्मात्रश्चतुर्मात्रद्वयं, यदिवा चतुर्मात्रत्रयं द्विमात्रश्च सा गन्धोदकधारा । यथा “रमणिकवोल कुरंगमयपत्तलयाविलअंसुभवि । घणगन्धोदयधार भरि, वइरिअ तुह व्हायंति सवि" ॥ ३० चित्तौपचपा वा पारणकम् । चतुर्मात्रत्रयं त्रिमात्रश्च, यदिवा षण्मात्रचतुर्मात्रपञ्चमात्राः, पारणकम् । यदा "कइअहिं होएसइ तं दिवसु, आणंदसुहारसपावणउ । होही प्रियमुहससिचंदिमई, जहिं नयणचउरह पारणओ।" ३१ ०चीः पद्धडिका । चगणचतुष्कं पद्धडिका । यथा “परगुणगहणु सदोसपयासणु, महुमहुरवखरहि अमिअभासणु । उवयारिण पडिकिओ वेरिअणहं, इह पद्धडी मणोहर सुअणहं।" अजादिश्चीजों लीर्वान्ते प्राक् पद्धताविह त्वविशेष इति विशेष ।।३२ चिपौषचाता वारगडाध्रुवकम् । चगणत्रयं पगणश्च, यदिवाः षण्मात्रश्चतुर्मात्रद्वयं त्रिमात्रश्च, यस्य पादे तद्रगडाध्रुवकं । यथा “अइ चंगं गई मोरई वल्लहिं, जइ तुम्ह रूवमडप्फरभग्गय । कांई त एम्बहिं तहु विरहक्खणि, महु वम्मह रगडुध्रुवु लग्गय"
इत्याचार्यश्रीहेमचन्द्रविरचितायां स्सोपज्ञच्छन्दोऽनुसासनवृत्तौ षट्पदी--चतुष्पदीशासनः षष्ठोऽध्यायः समाप्तः ।