________________
छंदोनुशासन
८८
'तुहु मुहु लायन्नतरंगिणीए, झलकन्तउ कन्तिकरंबिअउ । सोहइ निम्मलवगुलमंडलु, जलमज्झि नाइ ससिबिंबिअओ " । ५६ । अत्रैकः । एवं तावद्वा पञ्चपञ्चाशद्भेदा चतुष्पदी । उभये दशोत्तरं शतमन्तरसमा - चतुष्पद्यो वस्तुकानि वा । २१ ● आन्तरसमा एव द्वितीय तृतीयांहिव्यत्ययेऽर्द्धसमाः, द्वितीयतृतीयपादयोर्विपर्यये सत्यन्तरसमा एव दशोत्तर - शतसंख्या अर्द्धसमा संज्ञाः । एवग्रहणं सर्वसाम्यार्थम् । तेनासामपि तान्येव चम्पक कुसुमादीनि नामानि भवन्ति । तत्राजे सप्त समेऽष्टेत्यन्तरसमाचम्पक कुसुमम् । तदेव द्वितीयतृतीयां हि विपर्ययेऽर्द्धसमाचम्पककुसुमम् । यथा “गोरीगोट्ठि, दरफुरिओट्ठि । कलहंसीगइ कलहे लग्गइ " । ५७ । मुखपङ्क्तिरर्द्धसमा ॥ यथा " कृव ( किम्ब) कण्णकलिंग परज्जिआ, ठिम नरवइ सान विवज्जिआ । न हु कोइ अभिट्टइ अणिअवहि, कहिं वरि जयदृद्दु कण्ह कहिं” । ५८ । इत्यादि । २२ । ० द्वित्रिचतुर्भिर्लक्षणैर्मिश्रा सङ्कीर्णा ॥ द्वाभ्यां ध्रुवाया अहिलक्षणाभ्यां त्रिभिः चतुर्भिर्वा एकत्र मिश्रा संकीर्णा नाम चतुष्पदी । तत्र द्वाभ्यां सङ्कीर्णा । यथा " चूडल्लउ वाहोहजलु, नयणा कुंचुवि समघण । इअ भुंजि रइथा दूहडा पंचविकामदु पंचसर ।" । ५९ । त्रिभिर्यथा " वायाला फरसा विधणा गुणिहिं विमुक्का प्राणहर । जह दुज्जणसज्जणजणपउरि तेभ्व पसरु न लहंति सर ।" । ६० । यथा वा "चूड्डलओ चुण्णी होइसइ मुद्धिकओ - लिनिहित्तउ । निद्दद्धउ सासानिलिण, बाहसलिलसंसित्तओ ।" । ६१ । चतुभिर्यथा “तं तेत्तिउ बाहाहजलु, सिहिणं नरि विनपत्तु । छिमिछिमिति गंडस्थलहिं, सिमिसिमिविसिमिवि समत्तु । ” । २३ । ० समैपादैः सर्वसमा || तुल्यकलैश्चतुर्भिः पादैः सर्वसमा चतुष्पदी तद्विशेषानाह । २४ । पचौ ध्रुवकम् ॥ पञ्चमात्रचतुर्मात्रौ गणौ यस्य पादे तद्ध्रुवकम् । यथा “जइवि संखु करि तु ध्रुवु मुणिउ हरि । जं विरहभी अइ, अणुसरिउ सिरिअ । " । २५ । ० चौ दः शशाङ्कवदना । द्वौ चतुर्मात्रौ द्विमात्रश्चैकः
१४२
यथा