________________
१२८
छंदोनुशासन सस्थिअधोरणि । संगररंगि विवाहमहूसविजयलच्छिहिं, दारिअमयगलकुंभत्थलमोत्तियगुच्छिहिं ॥” ४० ० उत्साहादिना येनैव धवलमङ्गलभाषागाने तन्नामाये धवलमङ्गले ॥ उत्साहादीत्यादिग्रहणात् प्रक्रान्तानां रासावलयादीनां पूर्वोक्तानां हेलादीनां वक्ष्यमाणानां च दोहकादीनां च ग्रहणं, तन्नामाघे इति उत्साहादिनामपूर्वके । यथा । उत्साहधवलं वदनधवलं हेलाधवलं दोहकधवलं चेति । एवं मङ्गलेपि उत्साहमङ्गलादि वाच्यं । यदाहुः "उत्साहहेलावदनाडिलाधैर्यद्गीयते मङ्गलवाचि किञ्चित् । तद्रपकाणामभिधानपूर्व, छन्दोविदो मङ्गलमामनन्ति ।। १॥ तैरेव धवलव्याजात्पुरुषः स्तूयते यदा । तद्वदेव तदानेको धवलोऽप्यभिधीयते ।। २ ॥” ४१ ०देवगानं फुल्लडकम् ॥ उत्साहादिना येनैव देवो गीयते तत्फुल्लडकम् । ४२
गाने चिदौ झम्बटकम् ॥ यस्य कस्यचिद्गाने चगणत्रयं द्विमात्रश्च पादे चेत्तदा झम्बटकं । यथा “पहु तुह वेरि अरणिगय, निच्चुवि निवसहि जिम्व ससय । घणकंटयदुसंचरणि, तहिं झंबडइ करीरवणि ।।" वक्ष्यमाणा गन्धोदकधारेवेयं गानवशाज्झम्बटक संज्ञां लभते । उत्साहादिप्रकरणम् ।
॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्तावुत्साहादिप्रतिपादनः पञ्चमोऽध्यायः ॥
१ सन्ध्यादौ कडवकान्ते च ध्रुव स्यादिति ध्रुवा ध्रुवकं घत्ता वा ०कडवकसमूहात्मकः सन्धिस्तस्यादौ चतुभिः पद्धडिकाद्येश्छन्दोभिः * कडवकम् । तस्यान्ते ध्रुवं निश्चितं स्यादिति ध्रुवा, ध्रुवकंघ ता वेति संज्ञान्तरम् । २ ०सा त्रेधा षट्पदी चतुष्पदी द्विपदी च ॥ सेति ध्रुवा । ३ कडवकान्ते प्रारब्धार्थोपसंहारे आये छड्डणिका च ॥ प्रारब्धस्य प्रकरणायातस्यार्थस्य कडवकान्ते भङ्गयन्तरेणाभिधाने षट्पदीचतुष्पद्यावेव छडुणिकासंज्ञे, न केवलं ध्रुवादिसंज्ञे छड्डणिकासंज्ञे चेति