________________
१०५
छंदोनुशासन भवन्ति ता वर्णोना अक्षरैरूना गुरवो ज्ञातव्याः । तथा वर्णा गुरुभिरूना लघवो ज्ञातव्याः । तत्रायमुपयोगः । यदा कश्चित्पृच्छति अष्टात्रिंशदक्षरायामार्यायां कति गुरवः कति वा लघव इति । तदा सप्तपंचाशति शास्त्रोपदिष्टायामामात्रासंख्यायामष्टात्रिंशतं वर्णसंख्यामपनयेत् , अत्र येऽवशिष्यन्ते तान् गुरूनुपदिशेत् । ते चैकोनविंशतिः । वर्णेभ्यश्च गुरून्पातयित्वा शेषानेकोनविंशति लघूनुपदिशेत् । यथा “जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिवीरः ।” २४ इति आर्याप्रकरणम् ।
२५। ०पौ चौ तौ गलितकं यमितेऽङ्घौ ।। द्वौ पञ्चमात्रौ द्वौ चतुर्मात्रावेस्त्रिमात्रो गणो गलितकं । अङ्घौ पादे यमिते सति । तगणो यद्यपि वर्णगणोप्यस्ति, तथापि मात्रागणसमभिव्याहारादिह मात्रागणो गृह्यते । एवमन्यत्रापि यथा “गलिअंज धवले वहइ नयणपंकए सुहय चयइ कालागुरुचंदणपंकए । सहीअण आप्पय दलप चिअ णियं, सा तुह विरहे मालाइदाम विणियं १।” २६ तृतीये षष्ठे ल्युपात् ।। यमितेनौ तृतीये षष्ठे च लघुन्युपात् । उपगलितकमित्यर्थः । यथा "तुह विजयपयाणयभेरीरवडंबरम् , झत्ति णिसुणिऊण पडिरवमुहलिअंबरम् । सज्झसेण पकंपिरस्स हरिणो करओ, उअगलिअमिमं खु धणुहं धरए सरओ।" २७ ०समेऽन्तरात् ।। समेऽङ्घौ यमितेन्तरात् । अन्तरगलितकमित्यर्थः । यथा “ उअ वयंस वित्थरिअमहूसवलच्छिअं, रणरणंतभसलाबलिअं वणराइअं । कवलिअचिरपरूढमाणंसिणिमाणियं फुल्लवल्लिकुसुमंतरगलिअपराइअं" १ अन्ये तु प्रथमचतुर्थयोः पादयोर्यमनेऽन्तरगलितकमाहुर्यथा “पत्तलच्छिसुहय जणमोहपयासयं, गलिअनिद्दइन्दीवरपत्तसहोअरम् । सहइ तुज्झ एयं तं लोअणजुअलय, पत्तच्छि सुहयंजण मोहपयासयं ।। २" २८ पौ चौ पो वेः॥ द्वौ पञ्चमात्रौ द्वौ चतुर्मात्री एकः पञ्चमात्रश्चेद्यमितेऽङ्घौ वेगलितकं । विगलितकमित्यर्थः । यथा “उअ महुसमओ मिउफु