________________
छंदोनुशासन वयंसिआहिं" ३० अत्र तृतीयसप्तमगणयोः षट्पट्भेदास्ततस्तेषामन्यविकल्पानां चान्योन्यघाते जाताः अष्टाविंशतिः सहस्त्रा अष्टौ शतानि पूर्वार्द्धं । तेषां तावद्भिरेवोत्तरार्द्धनिकल्पैर्घाते जाता यशीतिः कोट्यश्चतुर्नवतिर्लक्षाश्चत्वारिंशत्सहस्राः । १२ ०षष्ठं विनेष्टपैर्विचित्रा ।। गीतिरेव षष्ठगणं विना यथेष्टं पगणैर्निबद्धा विचित्रा यथा “ भासासु विचित्रासु जुगवं सुरनरतिरिआण जीवजाईण । संवादमणुहवंति जयइ वाणी भयवओ जिणिदस्स ।।" ३१ विचित्रभेदत्वादस्या विकल्पसंख्या नोक्ता केचित्सर्वैरपि पगणैरिच्छन्ति । १३ ०चेऽष्टमे स्कन्धकम् ।। गीतिरेवाष्टमस्य गुरोः स्थाने चगणे कृते स्कन्धकं आर्यागीतिरित्यहीन्द्रः । अत्र गीत्यर्द्धविकल्पानामष्टमचगणविकल्पपञ्चकेन ताउने जाताश्चतुःषष्टि सहस्राः पूर्वार्द्ध । ताव भिरेवोत्तरार्द्धविकल्पैस्ताउने जातानि चत्वारिंशर्बुदानि नव कोट्यः षष्टिलक्षाणि । ४०९६०००००० । यथा “ तुह रिउरायपुरेसु तरुणीजणलालिअम्भि किकेल्लिवणे । संपइ अरण्णमहिसाण खधकं डूयणं पयढेइ दढं ।।” १ केचित्तु लघुचतुष्टयादारभ्य लघुद्वयद्वयवृद्ध्या ब्रह्मादीनि स्कन्धकान्याहुः । यथा " बंभो हीरो कण्हो रामो चंदो पुरन्दरो मेरू । धम्मो सेलो भाणू जक्खो पण्हीक मायगो ॥ २ ॥ कालो हरी कुबेरो सालो सुवणो सुदंसणो खंदो । नीर सिही सुवण्णो मेहो पंको अ कल्हारो ॥ ३ ॥ हेरंबो नीणो वण्णे लहुभेएहिं सुहयनामाई । एआई साहिआई पउणतीसाण खधाणं ॥ ४ ॥ " चउलहुएहिं बंभो हीरो छहिं अहिं तहा कण्हो । विहिं विहिं वठ्ठंतेहिं कमेण सेसाण नामाई ॥" ५ एतच्च स्कन्धकप्रस्तारेप्वन्तर्भूतमिति न पृथक् लक्ष्यते । एवं. भेदपरिकल्पने ह्यतिप्रसङ्गः स्यादिति । १४ ० तत्वष्ठे ल्युपात् तत्स्कन्धकमर्द्धद्वयेपि षप्ठे गणे एकस्मिन्नेव लघौ सति उपात्परं स्कन्धकं उपस्कन्धकमित्यर्थः । यथा “ उअ खंधाहइतुटुंतवाहुदंडोवि कोवि सुहडओ । एसो । सहि परजोहं पहरइ पाएण दढाहरओ।" ३३ अत्र षष्ठस्य गणस्य लघुत्वेनैकत्वात्पूर्वार्द्धद्वात्रिंशत्सहस्रास्तावद्भिरेवा