________________
छंदोनुशासन विपर्यये उद्गीतिः । इयमपि पूर्ववत् षोडशधा । पथ्यावच्च तदुद्गीतिषु विकल्पा वाच्याः । तत्र पथ्योद्गीतियथा “ वीरवरेण्य रणमुखे श्रुत्वा तव सिंहनादमिह । सपदि भवन्त्यरिकरिणो मधुव्रतोद्गीतिरिक्तगण्डतटाः ॥" १ महाविपुलोद्गीतिर्यथा "विपुलोद्गीतिः कलकोकिवारयैः पल्लवाताम्रा । मत्तेव पुरस्तरुपङ्क्तिरियं मधुपरिचयादितो भाति ॥" २ पथ्यामहाचपलोद्गीतियथा । “चपले प्रयातु मानादयं वराकः किमाह्वयसि । प्रतिभूरमुष्य भूयः समागमे भाविनी पिकोद्गीतिः ॥" ३ महाविपुलामहाचपलोद्गीतिर्यथा “बाला कुतोपि सारङ्गिकेव सा विपुलचपलाक्षी । श्रुत्वा तवाभिदोद्गीतिमाशु निप्यन्दिनी चिरं भवति ।।” ४ एवं शेपेषु द्वादशसु भेदेप्वप्युदाहार्यम् । तत्रायं संग्रहः एकैव भवति पथ्या तिस्रो विपुलास्ततश्चतस्रस्ताः । चपलाभेदैस्त्रिभिरपि भिन्ना इति षोडशार्या स्युः ॥ १ ॥ गीतीनां त्रयमित्थं प्रत्येकं षोडशप्रकारं स्यात् । साकल्येनार्याणाममी विकल्पाश्चतुःषष्टिः ।। ९॥ गीतिः सप्तमे पे रिपुच्छन्दाः॥ गीतिरेव सप्तमे पे पञ्चमात्रे गणे रिपुच्छन्दा । अतः परं प्राकृतादौ छन्दसां भूम्ना प्रयोग इति तत्रैवोदाहरिप्यते । यथा “कैलाससैलतुलणामाणं मा वहसु संपयं दसमुह । उअह रिपुछच्छन्दोलणतोलिजन्ते महोअहिम्मि गिरिणो ।” १ अत्र पगणस्याष्टभेदत्वेऽपि नौजे ज इति जगणानुविद्धभेदद्वयवर्जनात् षड्भेदाः । ततस्तेषां शेषगणविकल्पानां चान्योन्यताडनायां पूर्वार्द्ध जाता एकोनविंशतिः सहस्रा द्वे शते । तावद्भिरेवोत्तरार्द्धविकल्पैर्घाते जाताः षटूत्रिंशत् कोट्यः षडशीतिर्लक्षाश्चत्वारिंशत्सहस्राणि । १० तृतीये ललीता ।। गीतिरेव तृतीये पे ललिता यथा “ अंगुलिआहि ललिअंगीपवासदिअहे गणन्तिआणुदिणम् । वल्लहआयडढणकए जव इव मंतवखराइं एक्कमणा ।।” १ अत्र तृतीयपगणस्य षडविकल्पत्वे प्राग्वत्तावन्त एव भेदाः । ११ द्वाभ्यां भद्रिका । गीतिरेव द्वाभ्यां सप्तमतृतीयपगणाभ्यां भद्रिका यथा “जुबईण नयणलच्छीए सहजसलोणत्तणेण भदिआए । चक्खुभएण व दिग्णयं लक्खिज्जइ कज्जलं