________________
९३
छंदोनुशासन द्वावित्यकः एवं त्रिंशत् त्रिकसंयोगे मात्रासमकस्य द्वौ पादौ उपचित्राविश्लोकयोरुपचित्राचित्रयोरुपचित्रावानवासिकयोविश्लोकचित्रयोविश्लोकवानवासिकयोश्चित्रावानवासिकयोश्च प्रत्येकं द्वाविति षड्भेदाः । उपचित्राया द्वौ पादौ मात्रासमकविश्लोकयोर्मात्रासमकचित्रयोर्मात्रासमकवानवासिकयोविश्लोकचित्रयोविश्लोकवानवासिकयोश्चित्रावानवासिकयोः प्रत्येकं द्वाविति षडभेदाः । तथा विश्लोकस्य द्वौ पादौ मात्रासमकोपचित्रयोर्मात्रासमकवानवासिकयोरुपचित्राचित्रयोरुपचित्रावानवासिकयोश्चित्रावानवासिकयोश्च प्रत्येकं द्वाविति षड्भेदाः । चित्राया द्वौ पादौ मात्रासमकोपचित्रयोर्मात्रासमकविश्लोकयोत्रिासमकवानवासिकयोरुपचित्राविश्लोकयोरुपचित्रावानवासिकयोविश्लोकवानवासिकयोश्च प्रत्येकं द्वाविति षडभेदाः। तथा वानवासिकाया द्वौ पादौ मात्रासमकोपचित्रयोर्मात्रासमकविश्लोकयोर्मात्रासमकचित्रयोरुपचित्राविश्लोकयोरुपचित्राचित्रयोविश्लोकचित्रयोश्च प्रत्येकं द्वाविति षड्भेदाः । एवं त्रिंशत् । चतुष्कसंयोगे एकैकपरिहारेण पञ्च । सर्वे मिलिताः पञ्चषष्टिः । द्विजातिजा विकल्पाः स्युस्त्रिंशस्त्रिशस्त्रिजातिजाः। चतुर्जातिभवाः पञ्च पञ्चषष्टिरितीरिताः ॥ १ ॥ इति संग्रहश्लोकः एषां च पञ्चषष्टेभैदानां मध्यात् मात्रासमकस्य त्रयः पादाः एक उपचित्राया इत्येवरूपस्य प्रथमभेदस्य संख्या यथा मात्रासमकपादत्रयभेदानां तिसृणां चतुर्विशतीनामुपचित्रकपादभेदानांचाष्टाचत्वारिंशतोऽन्योन्याभ्यासे जाता षडलक्षाः त्रिषष्टिः सहस्राणि पञ्च शतानि द्विपञ्चाशदधिकानि । प्रथमभेदस्य च लोष्टसंचारक्रमेण चातुर्विध्यं । स्थापना । ततश्चतुर्भिर्गुणने जाताः षड्विंशतिर्लक्षाः चतुःपञ्चाशत्सहस्रा |मा | मा | मा | उ द्वे शते . अष्टोत्तरे एवं द्वितीयादिभेदेष्वप्यूह्यम् ।
| तत्र मात्रौसमकस्य त्रिभिः पादैरुपचित्रायाश्चैकेन मा | उ | मा | मा उ | मा | मा । मा पादाकुलकं यथा “शशधरपादाकुलके गगने कोकिलनादैर्मुखरे च वने । मदने ज जगज्जयनैकाग्रे पान्थ कथं गन्ता तदिहाने ॥" मात्रासमकस्य पादद्वयेन उपचित्राया एकेन विश्लोकस्य