SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन धीर्जीवन्नपि स पुमानवसन्नः ।।” ७३ नवमश्च चित्रा ॥ नवमो लघुश्चकारात् पञ्चमाष्टमौ च यत्र भवतः सा चित्रा । आद्ये चे विकल्पाश्चत्वारः ss | ॥s | 5 ॥ ! ॥॥ | द्वितीये द्वौ ।।। | ॥॥ | तृतीये त्रयः ।। 5 | || 5 | | | | चतुर्थे द्वौ 55 | || 5 | अन्योन्यताउनायां प्रतिपादमष्टाचत्वारिंशभेदाः प्राग्वदन्योन्यताडनायामुपचित्रातुल्यासंख्या यथा " नित्यं प्रतिगृहमपि विस्फूर्जद्विद्रुममरकतकनकमयूखैः । चित्रा नृप तव पुरि भवति द्यौः, प्रकटितबहुविधसुरधन्वेव ।।" ७४ ०द्वादशश्च वानवासिका ।। द्वादशश्चकारान्नवमश्च यत्र लघुभवति सा वानवासिका। अत्राद्ये चे चत्वारः 55 | ||s | 5 | | ॥॥ ! द्वितीये त्रयः । ऽऽ ||s | 5 ॥ | तृतीये द्वौ ।ऽ। | ।।।चतुर्थे द्वौ ऽऽ | ।। s | अन्योन्यताडनायां प्रतिपादमष्टाचत्वारिंशत् । अन्योन्यताउनायां सैव संख्या । यथा “ सौरभपाण्डिममहिमविशेषान्ना गरखण्डाधिकप्रमोदम् । दधदधुना भूप गीयते ते चारु यशो वानवासिकाभिः॥" ७५ ०एभिः पादाकुलकम् ॥ एभिर्मात्रासमादिपादै रचितं पादाकुलकं तच्च द्विकत्रिकचतुष्कसंयोगभेदात्पञ्चषष्टिभेदम् । तत्र द्विकसंयोगे मात्रासमकस्य त्रयः पादा उपचित्राचतुष्टयस्यैकैक इति चत्वारो भेदाः । उपचित्रायास्त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इमि चत्वारः । विश्लोकस्य त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इति चत्वारः । चित्रायाः त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इति चत्वारः । तथा वानवा सिकायास्त्रयः पादा मात्रासमकादिचतुष्टयस्यैकैक इति चत्वारः । मात्रासमकस्य द्वौ पादौ उपचित्राया विश्लोकस्य चित्राया वानवासिकायाश्च प्रत्येकं द्वाविति भेदाश्चत्वारः । मात्रासमकं हित्वा उपचित्राया द्वौ पादौ विश्लोकस्य चित्राया वानवासिकायाश्च प्रत्येकं द्वाविति त्रयो भेदाः । मात्रासमकमुपचित्रां च हित्वा विश्लोकस्य द्वौ पादौ चित्राया वानवासिकायाश्च प्रत्येकं द्वाविति द्वौ भेदौ । मात्रासमकमुपचित्रां विश्लोकं च हित्वा चित्राया द्वौ पादौ वानवासिकायाश्च
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy