________________
छंदोनुशासन
षट्पञ्चाशत् कोट्यः सप्तनवतिर्लक्षाः षष्टिः सहस्राणि । वैतालीयप्रकरणं विंशति ॥ ७० ० अजमुखवीर्गन्तो नवमे ले मात्रासमकम् । न विद्यते जगणो मुखे यस्यासावजमुखः । चोरिति चत्वारश्चगणाः गुर्वन्ता | नवमे लधौ सति । मात्रासमकं । तत्राद्ये चगणे चत्वारो विकल्पाः । ऽ ऽ | ।। ऽ | s
८८
| ॥ ॥ | द्वितीये त्रयः । ऽ ऽ | | 5 | 5 | | मध्यगुरुसर्व लघुविकल्पौ तु विश्लेोकेनापोदितत्वान्न भवतः । तृतीये एकः । | 5 | नवमे ले इतिवचनादादिगुरुसर्वलघू न भवतः । मध्यगुरुसर्वलघू तु वानवासिकालक्षणेनापोदितत्वात् । चतुर्थे द्वौ ऽ ऽ | | 5 | गन्तत्वाभिधानादन्यविकल्पानामप्राप्तिः । अन्योन्यताडनायां प्रतिपादं चतुर्विंशतिर्भेदाः । चतसृणां चतुर्विंशतीनामन्योन्यताडनायां जातं तिस्रो लक्षा एकत्रिंशत् सहस्राः सप्त शतानि षट्सप्तत्यधिकानि । यथा अद्यापि मधु शिशुरेवायं नो सज्जशरः कुसुमास्त्रोsपि । मा त्रासमुपाश्रय धीरास्स्व भावी क्षणतः प्रयतः सोऽपि ॥” ७१ ०ग्युपचित्रा । अजमुखश्वीर्गन्तो नवमे गुरावुपचित्रा । अस्यां तृतीये चेद्वौ विकल्पौ ss | 5 || अन्ये च गणविकल्पाः प्राग्वत् । अन्योन्यताडनायां प्रतिपादमष्टाचत्वारिंशद् भेदाः । प्राग्वदन्योन्यताडनायां त्रिपञ्चाशल्लक्षाश्चतुरशीतिः शतानि षोडशोत्तराणि यथा ' शङ्खक्षोदरुचा तव कीर्त्या, लोकानां च त्वप्यनुरागैः । कृष्णैश्चापयशोभिर्द्विषतां दिशि दिशि जाता भूरुपचित्रा ।। " ७२ ०लौ पञ्चमाष्टमौ विश्लोकः यस्य पादे पञ्चमाष्टौ लघू भवतः, स विश्लोकः । अत्राद्ये चे चत्वारो विकल्पाः | ss | ॥ ऽ | s ॥ | | | | द्वितीये द्वौ | 5 | | | | | ततीये द्वौ sss || | गुरुमध्यगुर्वन्त सर्वलघुगणत्रयं तु चित्रयापोदितम् । चतुर्थे गुर्वन्तं गणद्वयमेव ss | ॥s | अन्योन्यताडनायां प्रतिपादं द्वात्रिंशद्भेदाः प्राग्वदन्योन्यताडनायां दश लक्षा अष्टाचत्वारिंशत्सहस्राः पञ्च शतानि षट्सप्तत्यधिकानि । यथा " यस्य न कुलमपि यो विश्लोकः, स्फुरति च मनसि न यस्य विवेकः । येन न गुणविषये निहिता
८८