________________
छंदोनुशासन णान्तिका । वैतालीयादेर्यथासंभवं सर्वेषु पादेप्वाद्यालयोः परो गुरुश्चे
द्भवति । तदा दक्षिणान्तिका । यथा “ तुषारसंभारवेदनाभियेव हैमवती त्यजन् दिशम् । मयूखवानेष संप्रति, प्रयाति सरणि दक्षिणान्तिकाम् ॥" एवमौपच्छन्दसकापातलिकयोरुदाहार्यम् । अत्र भेदत्रयेऽपि प्रत्येक प्रथमपादविकल्पद्वयेन द्वितीयपादविकल्पाश्चत्वारो हताः अष्टौ पूर्वार्द्ध । अपराद्धेऽपि तावन्तः । अन्योन्यताडनायां चतुःषष्टिः । ६७ ०ओजे चौ युजि पचौ लदलदान्तौं मागधी ।। विषमे चौ चतुर्मात्रौ द्वौ गणौ । लदलदान्तौ। समे पचौ षण्मात्रचतुर्मात्रौ च लदलदान्तौ । ते यत्र भवतः सा मागधी । लदलदान्ताविति ल इति लघुः । इति मात्राद्वयम् पुनर्लघुर्मात्राद्वयं चान्ते ययोस्तौ तथा । यथा “ मधुसहचरीह पिकरमणी, नवसहकारविहारलालसा । त्रिजगज्जयिनो मनोभुवो, मङ्गलगीतौ भवति मागधी ।।" अत्र प्रथमपोदे चौ पञ्चपञ्चभेदौ । ल एकभेदः । दो द्विभेदः । पुनर्ल एकभेदः । दो द्विभेदः अन्योन्यताडने षष्टयधिकशतद्वयम् । अस्य प्रथमपादविकल्पैस्ताडने जातानि षड्विंशतिः सहस्राणि पूर्वार्द्ध विकल्पाः । अपराद्धैऽप्येवम् । अन्योन्यताडने जाताः सप्तषष्टिकोदप्यः षष्टिलक्षाधिकाः ६८ ०ओजजा पश्चिमान्तिका॥ मागधिकाया ओजपादेन जनिता पश्चिमान्तिका । यथा “उदयं लब्ध्वा महीतले, सन्तापकरः कथं भवान्। दिवसापगमेऽस्तकारिणी तरणे तव पश्चिमान्तिका ॥' अत्र प्रथमपादविकल्पशतेन द्वितीयपादविकल्पशतं ताडितं जातानि दश सहस्राणि पूर्वार्द्ध । अपरा?ऽप्येवं । अन्योन्यताडनायां जाता दशकोट्यः ॥ ६९ ०युग्जोपहा सिनी॥ मागधिकायाः समपादैर्जनितोपहासिनी । यथा “वपुषेयं द्रुतहेमभासिनी लोचनलक्ष्भ्याम्बुजविलासिनी । भुवा मनसिजधनुःप्रकाशिनी, वदनरुचा चन्द्रोपहासिनी ॥' अत्र प्रथमपादविकल्पानां षष्टयधिकशतद्वयेन द्वितीयपादविकल्पास्तावन्त एवाहता जातानि सप्तषष्टिः सहस्राणि षट्शताधिकानि पूर्वार्द्धं । अपराद्देऽप्येवम् । अन्योन्यताडनायां चत्वार्यब्जानि