SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन रान्तिका यथा “ सुभग हे सरभसं सविलासैः प्रतिमुहुस्तरललोचनपातैः । सङ्गमोत्सवविधौ तव सत्यक्कारमर्पयति पक्कजनेत्रा ।। ” इयमुत्पातलिकेत्येके । अत्रापि भेदत्रये प्रत्येकं प्रथमपादविकल्पैश्चतुर्भिद्धितीयपादविकल्पाश्चत्वार आहताः षोडश पूर्वार्द्ध । उत्तरार्द्धऽपि तावन्तोऽन्योऽन्यताडनायां द्वेशते षट्पञ्चाशदधिके । ६५ ०ओजजा चारुहासिनी वैतालीयादेविषमपादजाता चारुहासिनी । तत्र वेतालीयचारु हासिनी यथा “यदि सा बत चारुहासिनी किमु चन्द्रिकयाऽनया ततः । यदि सा च विलोललोचना किमु नीलसरोजिनीवनैः ॥' वैतालीयोत्तरान्तिकेत्येके । ओपच्छन्दसकचारुहासिनी । यथा " ततिरिह गगने न तारकाणां,प्रतिदिशमुदिता विभाति किन्तु । सरभसमुपसर्पतः सुधांशोः, कीर्णः कुसुमाञ्जली रजन्या ।। ” औपच्छन्दसकोत्तरान्तिकेत्येके । आपातलिकाचारुहासिनी यथा “ भाति सुवदने तव भाले नवमलयजचित्रकलेखा । पद्म जित्वा नयनाभ्यामुत्क्षिप्तेवेह पताका ॥" अवपातलिकेत्यन्ये । अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैरष्टभिद्वितीयपादविकल्पा अष्टावाहताः चतुःषष्टिः पूर्वार्द्ध। अपराद्धेऽपि तावन्तोऽन्योऽन्यताडनायां चत्वारिंशच्छतानि षण्णवत्यधिकानि । वैतालीयोदीच्यवृत्तिचारुहासिनी यथा “ हृदि प्रविष्टा मृगेक्षणा, तथा यथेहैव तस्थुषी । मनोभुवो निष्पतच्छरै निरन्तरैः कीलितेव सा ॥” ओपच्छन्दसकोदीच्यवृत्तिचारुहासिनी यथा “विदग्धयूनां पतद्भिरेभिः स्खलद्दतिरिवायतैःकटाक्षैः । इयं सुजघनातिमन्दमन्दं, सखे वितनुते पदप्रपञ्चम् ॥” आपातलिकोदीच्यवृत्तिचारुहासिनी । यथा “ विशालवंशादपि जातः सदा प्रकटयन्नतिमेकाम् । धनुःसदृशतां कलय त्वं, गुणाधिरोहोऽभिमतश्चेत् ॥' अत्रापि मेदत्रये प्रथमपादविकल्पाभ्यां द्वितीयपादविकल्पावाहतौ चत्वारः पूर्वार्द्ध । अपराद्धेऽपि तावतोऽन्योऽन्यताडनायां षोडश। ६६ ०सर्वेष्वाधलाद्गोदक्षि
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy