SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ८८ छंदोनुशासन भ्रष्टनष्टसुभ विवाजि च । द्विषां बलमजायत त्वयि क्षमापते क्षणं अधिज्यधन्वनि ॥” ओपच्छन्दसकप्रवृत्तकं यथा “ पुरो दिनपतेरमुष्य सद्यः, पश्य संप्रति कठोरपादपातैः । स्फुटन्ति कमलाकराः समन्ताच्छीर्यते च सहसा तमिस्रराशिः ॥” आपातलिकाप्रवृत्तकं यथा “ भवच्चरणयोः प्रणयित्वं, यान्ययुः क्षितिभृतां न शिरांसि । क्षणाद्दशिरे युधि तानि, क्षुद्रगृध्रचरणप्रणयीनि ॥” अत्र प्रथमपादविकल्पाभ्यां द्वितीयपादविकल्पाश्चत्वारः आहता अष्टौ पूर्वार्द्धं विकल्पा । एवं उत्तरार्द्धऽपि । अन्योऽन्यताउनायां चतुःषष्टिविकल्पाः। ६४ वैतालीयादेर्युक्पादजापरान्तिका ।। वैतालीयौपच्छन्दसकापातलिकातत्प्राच्यवृत्तीनां सभपादैर्जनिताऽपरान्तिका । तत्र वैतालीयापरान्तिका यथा “ दिशतीं दुग्धपयोधिविभ्रमं, लवणाब्धेरिह रोधसि स्थिताः । श्रीसिद्धाधिप कीर्तिमुपाकैस्तव गायन्त्यपरान्तिकाः स्त्रियः ॥” इयं वैतालीयदक्षिणान्तिकेत्येके । ओपच्छन्दसकापरान्तिका यथा " श्रीचौलुक्य किमद्भुतं पपात व्योन्नो यत्त्वयि दिव्यपुष्पवृष्टिः । प्राक्तस्मिन्नरिकुम्भिकुम्भभेदात्कीर्णा मौक्तिकपङ्क्तयस्त्वया हि ॥" इयमौपच्छन्दसकदक्षिणान्तिकेत्येके । आपातलिकापरान्तिका यथा " तरुणीवैषा दीपितकामा, विकसज्जातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा प्रावृट् तनुते कस्य न हर्षम् ॥” इदं नलिनमित्येके । अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैस्त्रयोदशभिद्वितीयपादविकल्पास्त्रयोदशाहताः एकोनसप्तत्यधिकं शतं पूर्वार्द्ध विकल्पाः । उत्तरार्द्वऽपि तावन्तोऽन्योऽन्यताडनायां जातानि अष्टाविंशति सहस्राणि पञ्च शतानि एकषष्टयधिकानि । वैताली. यप्राच्यवृत्यपरान्तिका यथा “ आगतोऽसि धूर्तपरान्तिकान्न ह्यलीकवाचामिहास्पदम् । जतुरसोऽयमक्ष्णोत्तथाधरे कजलं च यत्ते विलोक्यते ॥" ओपच्छन्दसकप्राच्यवृत्त्यपरान्निका. यथा “ केवलस्य न गिरेर्यदछिपद्माङ्गुष्ठपीडनवशाच्छिरः सुमेरोः । कम्पितं दिविषदां च विस्मितानां पातु पश्चिमजिनः स वोऽद्भुतश्रीः ॥” आपातलिकाप्राच्यवृत्यप
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy