________________
छंदोनुशासन
८७
परो गुरुश्चेतदा प्राच्यवृत्तिश्छन्दः । ओजयोस्तु पूर्वत् । सा च वैताली - यौपच्छन्दस का पातलिकोपाधिभेदात्त्रेधा । तत्र वैतालीयप्राच्यवृत्तिर्यथा भुवने दधदेकवीरतां, त्यागधर्म्म करुणापराक्रमैः । नृपसिंह पटच्चरीं निजप्राच्यवृत्तिमकरोः पुनर्नवाम् ॥ " औपच्छन्दसकप्राच्यवृत्तिर्यथा
(C
नवपल्लवपाटला
" उदयाचलवप्रभाग वल्गत्सप्तसप्तितुरगाङ्घ्रिता उनोत्था । पुरस्ताद्धातु धूलिपटलीव भाति सन्ध्या ।। " आपातलिकामाच्यवृत्तिर्यथा " अलिमलिने व्योनि पतन्तो, रश्मयोऽभिनवशीतमरीचेः । दधति तुलामन्तरुदन्वत्सान्द्रविद्रुमलताविपिनानाम् ॥" अत्र चत्वारो विकल्पा यथा
८८
| ऽ । ऽ । ऽ | ॥ । ऽ । ऽ | ऽ । ऽ | | | | | | 5 | | | ते चौपादविकल्पैरष्टभिराहता द्वात्रिंशत्पूर्वार्द्धविकल्पाः । उत्तरार्द्धेऽपि तावन्तोऽन्योऽन्यताडनायां दश शतानि चतुर्विंशत्यधिकानि । इयमुपपातलिकेत्येके । ६२ ० अयुज्याद्यलाग उदीच्यवृत्तिः । अयुक्यादयोराद्यारलघोः परो गुरुश्वेत्तदा उदीच्यवृत्तिः । युजोस्तु पूर्ववत् । एषापि पूर्वदस्त्रिधा । तत्र वैतालीयोदीच्यवृत्तिः यथा " विवस्वतोदीच्यवृत्तिना मरुता दक्षिणवृत्तिना तथा । जनोऽयमिह जायते मधौ युगपत्तापतुषारभाजनम् ।। " ओपच्छन्दस कोदीच्यवृतिर्थथा " भवद्गुणश्रुतेरमर्षाद्दशनैरोष्ठमखण्डयन्नृपा ये । महीश युधि चेटचिह्नमेते विदधत्यङ्गुलिखण्डनं त्वदग्रे || " आपातलिकोदीच्यवृत्तिर्यथा विनम्रसुररत्नकिरीटरश्मिविमिश्रितपादनखांश्रुः । अगाधकरुणा रससिन्धुः, पातु सवश्चरमो जिननाथः || अस्या अपि विकल्पौ द्वौ | 15 15 | 15111 | युक्पादविकल्पैस्त्रयोदशभिराहतौ षड्विंशतिः पूर्वार्द्धभेदा । अपरार्द्धेऽपि तावन्तोऽन्योन्यताडनायां जातानि षट्शतानि षट्सप्तत्यधिकानि ॥ ६३ ० ते मिश्र प्रवृत्तकम् ।। ते प्राच्यवृत्त्यदीच्यवती मिश्रे सङ्कीर्णे प्रवृत्तकम् । युक्पादे मात्रात्रयात् गुरुरयुक्पादे आद्यलाद्गुरुरित्यर्थः । इदमपि बैतालीयादिभेदात्वा । तत्र वैतालीयप्रवृत्तकं यथा " प्रवृत्तकरिविद्रवं रथ
""
८८