SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन " परिहर वत परिचयमपि युवतिषु किमति नहि विसृजसि विषयसुखमिह । ज्योतीरूपं निष्कर्माणं कृत्वात्मानं मुक्ति यायाः” एते द्वे अप्यनङ्क्रीडेति जयदेवः । शिखेत्यहीन्द्रः । इति विषमवृत्तप्रकरणम् ।। ___अथ मात्राछन्दांसि । ५८ ०ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षटू सतन्तं ला न समः परेण गो वैतालियम् ॥ ओजपादयोः षण्मात्रा लगन्ताः रगणलघुगुर्ववसानाः । युक्पादयोरष्टौ मात्रा लगन्ता एव यत्र तद्वैतालीयं नाम च्छन्दः । अपवादमाह । न युजोः पादयोः षडलघवो निरन्तरा भवन्ति । न च समो लः सर्वपादेषु परेण सह गुरुर्भवति । यथा “ अधुना भवदीय वैरिणामटवीकोटरचारिणां नृप । प्रतिभाति तृषान्धचेतसां वैतालीयरसः सुधोपमः ॥' अत्रौजपादेऽष्टौ विकल्पाः । sss | ॥ss | sms | ॥ ॥ s | 55 ॥ | ॥ 5 ॥ | 5 ।। ॥ | ।।। ॥ | युक्पादे त्रयोदश । ssss ||sss | suss |॥ ॥ ss | sऽ ऽ | ॥ 5 ॥ s | 5 ॥ ॥ s | 5 55॥ |॥5॥ | 5॥5॥ | ॥॥॥ | 55॥॥॥॥॥ | अष्टभिस्त्रयोदशगुणिताश्चतुरुत्तरं शतं वैतालीयपूर्वार्द्ध भेदा भवन्ति । उत्तराद्धेऽपि तावन्त एव । अन्योन्यताडनायां जातानि दश सहस्राण्यष्टौ शतानि षोडशाधिकानि ५९ र्यान्ता ओपच्छन्दसकम् ।। ओजे षण्मात्रा युज्यष्टौ यन्तिा रगणयगणान्ताश्चेद्भवन्ति शेषं तु सर्व वैतालीयसमं तदा ओपच्छन्दसकं नामच्छन्दः यथा “ कीर्तिस्तव वल्लभा त्रिलोकीमखिलां पर्यटतीति यत्प्रबुद्धाः । कवयः कवयन्ति सत्यमेतन्नौपच्छन्दसका भवन्ति सन्तः” ६० ०भगगान्ता आपातलिका । ओजे षण्मात्रा युज्यष्टौ भगणगुरुद्वयान्ताश्चेद्भवन्ति शेष वैतालीयसमं तदा आपातलिकानामच्छन्दः । यथा “आपातलिका वत संपत्क्षणिकं प्राणितमप्यसुभाजाम् । इति मत्वा निश्चयपूर्व, शाश्वतिकार्थे यत्नमुपाद्भवम् । आपातलिकाऽस्थिरा" ६१ ०युजि तिसृभ्यो गः प्राच्यवृत्तिः । युक्पादयोस्तिभ्यो मात्राभ्यः
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy