SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन वचनादुद्गताया एवान्ये त्रयः पादाः गृह्यन्ते । यथा “ अतिरेकवान्किल गुणोऽपि कलयति कदापि दोषताम् । सप्तपर्णविटपी लसन् (विरुधां) मदसौरभावनगजैर्विदल्यते " ॥ ५२ नौ सौ ललितम् ॥ उद्गतैव तृतीये पादे ननससाश्चेल्ललितम् । पादत्रयं पूर्ववत्तदेव यथा “ सदलकृतगुणगणेन, विविधरसभावभङ्गिभिः। सुललितपदरचनाभिरहो, ललनेव का न कविता मनोरमा ॥" उद्गताप्रकरणं त्रिभिः । ५३ ०म्सज्भगगाः स्नजरगाः नासौ निज्याः पादेषपस्थितप्रचुपितम् । प्रथमे पादे मसजभगगाः । द्वितीये पादे सनजरगाः तृतीये ननसाश्चतुर्थे नगणत्रयं जयौ च यत्र भवन्ति तदुपस्थितप्रचुपितं वृत्तम् । यथा “ राजन्यैः समरे मदादुपस्थितपूर्वम् द्विरदप्रचुपितयायिभिर्विपक्षैः । तव धनुरुरुनिनदाद् द्रुतगतिमृगवदपसरति त एते ॥” ५४ नौ स्नौ सौ तृतीये वर्द्धमानम् ।। उपस्थितप्रचुपितमेव तृतीये पादे ननसननसाश्चेद्वर्द्धमानम् । तृतीय इति वचनादन्यत्पादत्रयं तदवस्थमेव । यथा “दिग्यात्रासमयेऽद्य जैत्रतूर्यनिनादैवियति प्रतिरसितेन वर्द्धमानैः । भयतरलितगमनान् दिनकररथतुरगान् कथमपि नृवर नियमयत्यरुणोऽयम् ॥" ५५ ०तजाः शुद्धविराडषभम् । उपस्थितमेव तृतीये पादे तजराश्चेत्तदाः शुद्धविराडषभम् । अन्यत्पादत्रयं तदवस्थमेव । यथा “लावण्यामृतपुरधारिणीह विशालरमणोन्नतपुलिनस्थलीमनोज्ञा । सा शुद्धविराण्मुखाम्बुजा, सरिदिव रमयति हृदयानि नराणाम् " उपस्थितप्रचुपितप्रकरणं त्रिभिः ।। ५६ ०पूर्व अर्द्ध मुगौ परे न्लललाः सौम्या ॥ पूर्वार्द्ध पञ्च मगणा गुरुश्च । षोडश गुरव इत्यर्थः । उत्तरार्द्ध दश नगणा लद्वयं च द्वात्रिंशल्लघव इत्यर्थः यत्र तच्छन्दः सौम्या । यथा "सौम्यतस्याः किं बालाया नो जानीषे कष्टावस्थाम् । धरणितलविलुठनमलिनितकुचकलशमनुभवति तव विरहमिह किल ॥" ५७ ०व्यत्यये ज्योतिः ।। यत्र पूर्वार्द्धं द्वात्रिंशल्लघव उत्तरार्द्ध षोडश गुरवस्तच्छन्दो ज्योतिः । यथा
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy