________________
८४
छंदोनुशासन कान्तां, शरणमयि पथिक हतक झगिति जहिहि वनान्तम् ॥' अत्र प्रतिपादं चतुभिर्यतिरिति कश्चित् । पदचतुरूज़वदापीडोऽपि चतुर्विंशतिधेति तन्मध्यात्पूर्वाचार्यानुरोधेन भेदत्रयस्य नामान्युच्यन्ते । ४९ ०स आद्यस्य द्वितीयादिना व्यत्यये कलिकालवल्यमृतधारा: ।। स आपीड आद्यस्य पादस्य द्वितीयतृतीयतुर्यैः पादैविपर्यासे यथासंख्यं कलिकादयो भवन्ति । तत्राद्यस्य द्वितीयेन व्यत्यये कलिका यथा “करकलितनिशितकरवालः, सुचिरमवनिपालः । प्रथुमदरिपुनृपतिबलदलनकालः, त्वमिह जय निजविलसितपरिदलितकलिकालः ॥” मञ्जरीति पिङ्गलः । आद्यस्य तृतीयेन व्यत्यये लवली यथा “ त्वयि जलधिमनुवलति नृपमुखवासः, समजनि निखिलदिगवलानाम् । सुरभिबहुरजोभिः, तरलतुरगनिक रखुरमृदितमृदुलवलीनाम् " आद्यस्य तुर्येण व्यत्ययेऽमृतधारा यथा “प्रणयवति सखि समुपहसितमनसिशयरूपे, प्रणयमनुसर क इव मानः । स्रवति वचनमपि मधुरमिह यदस्य, सततममृतधाराम्” पिङ्गलस्तु पदचतुरूद्धभेदानेतानाह । यथा “ जनयति महतीं प्रीतिं हृदये, कामिनां चूतमञ्जरी। मिलदलिचक्रचञ्चपरिचुम्बितकेसरा, कोमलमलयवातपरिनर्तिततरुशिखरस्थिता" । विरहविधुरहूणकान्ताकपोलावदातम्, परिणतिदरपीतपाण्डुच्छवि लवलीफलं निदाधे । जयति हिमशीतलं, पाण्डवस्वादु तृष्णाहरं सुन्दरम् " ॥ यदि वाञ्छसि कर्णरसायनं सततममृतधाराभिः, यदि हृदि वा परमानन्दरसम् । भ्रातः शृणु धरणीधरवाणीममृतमयीं, तत्काव्यगुणभूषणामिति" पदचतुरूर्वप्रकरणं सप्तभिः । ५० °स्जस्ला न्सज्गा भजल्गा स्जसज्गाः पादेषद्गता॥ यस्य प्रथमे पादे सजसलाः । द्वितीये पादे नसजगाः । तृतीये पादे भनजलगाः। चतुर्थ पादे सजसजगास्तद्वत्तमुद्गता । यथा “वत चन्द्रिका जलमशेषमुपरमयितुं चकोरकाः । शक्यमिह न खलु तत्परितः पिबतोद्गतां सपदि चन्द्रलेखिकाम् ' ५१ नभगास्तृतीये सौरभकम् । उद्गतैव तृतीये पादे रनभगाश्चेत्सौरभकम् । तृतीय इति