________________
९४
छंदोनुशासन
"
चैकेन यथा “ जयिनि दिगन्ताद्भवति प्राप्ते पौरस्त्रेणं त्वरितं नृपते । विचरति सद्यः पादाकुलकं मलयानिल इव भृङ्गीकुलकम् " ।। मात्रासमकोपचित्राचित्रावानवासिकापादैर्यथा “ वन्दितपादाकुलकैर्द्यसदामनुपममहिमश्रीधाम सदा । सा वो वितरतु शिवमाकल्पं भारत्यनुदिन मसममनल्पम् " || भाषान्तरेष्वपि यथा चंदुजोओ चन्दणलेवो कुवलयसेज्जा कमलुक्खेवो । दाहिणमारुअओ कप्पूरं अहिअं विरहे डहइ सरिरं 11 एवमन्यदप्युदाहार्यं । अथवा । एभिरिति वैतालीयादिभिः पादाकुलकं । अयमर्थः | एक पादो वैतालीयस्यापर औपच्छन्दसकादेर्मात्रासमादेर्वा । यद्वा एक औपच्छन्दसकादेरपरो मात्रासमादेर्यद्वैको मात्रा समस्या पर उपचित्रादेः पाद इत्यादि । तदापि पादाकुलकम् ७६ ० चो गीर्नटचरणं जैः ॥ चगणो गुरुचतुष्टयं च जैरित्यष्टभिर्मात्राभिर्यतिः यथा कर्मविशेषाद्दिव्यो मर्त्यस्तिर्यग्रपः । इह भवनादयेर्जन्तुर्नटचरणं ही धत्ते ।। " इह चः पञ्चविकल्पो गीस्त्वेकविकल्प इत्यन्योन्याघाते पञ्चैव प्रतिपादं । तेषामन्योन्यताड
66
*
·
कण्ठः
नायां षट् शतानि पञ्चविंशत्यधिकानि । ७७ ० चौ गौ चौ गौ नृत्तगतिष्ठैः ॥ द्वौ चतुर्मात्रौ गुरुद्वयं च । ठेरिति द्वादशभिर्येतिः यथा " अधुना ध्वनति गभीरं मेघमृदङ्गे चन्द्यां तडिति पुरस्ताच्चित्रपदायाम् । इह किमपि नीलप्रमुदितचित्तो, गीतगति तनुतेऽसौ नृत्तगतिं च ॥” अत्र प्रथमे चगणे पञ्च भेदाः द्वितीयेऽपि । तृतीये एकः । चतुर्थे पञ्च । पञ्चमे एकः । अन्योन्यघाते पञ्चविंशत्यधिकं शतं प्रतिपादं भावादन्योन्यताडनायां चतुर्विंशतिः कोट्यः एकचत्वारिंशल्लक्षाः चत्वारिंशत्सहस्राः षट् शतानि पञ्चविंशत्यधिकानि । ७८ ० चीनजे जो जो लीवन्तेऽनुप्रासे पद्धतिः ॥ चगणचतुष्टयं । पादान्तेऽनुप्रासे सति पद्धति: पद्धटिकेत्यन्ये अस्यापवादः नात्र विषमे जगणः, पादान्ते च जगणो लघुचतुष्टयं वा
८८
यथा छत्रायमाणधरणोरगेन्द्र पार्श्वजिनेन्द्र स्मरमृगमृगेन्द्र । दर्शय दीर्ण