________________
छंदोनुशासन स्वनच्छलेन ॥” १२ नभभ्रा नभिरा मकरावली ।। ओजे नभभराः युजि नो भत्रयं रश्च । यथा “ मकरकेतुभटस्य विराजते वरतनुर्ध्वजयष्टिरिव प्रगुणीकृता । मुदुकपोलतले दधती नवां मृगमदस्तबकैलिखितांमकरावलीम् ॥" १३ °मसागाः सभासाः करिणी ॥ ओजे मः सगणद्वयं गुरुश्च । ' युजि सो भगणद्वयं सश्च । यथा “ चन्द्रो मत्तकरीन्द्र इवायं दलितोदामतमस्तरुगहनः । क्रीडत्यम्बरपस्वलमध्ये स्फुटताराकरिणीभिरनुसृतः ॥" १४ साज्गाः सभाः प्रबोधिता ॥ ओजे सद्वयं जगौ च । युजि सभरलगाः । यथा “ तरुमूलगृहाः क्षपाक्षये नृप निद्रां जहति द्विषस्तव । विटपान्तकुलायनिष्पतत्पतगश्रेणिरवैः प्रबोधिताः॥" १५ नारल्गा नजज्रा अपरवक्त्रम् ॥ ओजे नगणद्वयं रलगाश्च । युजि नजजराः । यथा " नृपवर भवदीयवर्णनं निखिलमुखै रचयन् पुरातनैः । अधिकमपरवत्क्रमीहते श्रुतिपठनाय चतुर्मुखोऽधुना' एतौ वैतालीयभेदौ । १६ ०गान्तं पुष्पिताना ।। अपरवक्त्रमेवौजयुजोर्गान्तं पुष्पितामा । यथा “ स्मर इव शयितः कयाथ शोकेप्यपदहनेन जगज्जयाय नुन्नः। सपदि यदिषवोऽस्य पुष्पिताग्रप्रसवमिषात्प्रगुणाः परिस्फुरन्ति ।” १७ ०साज्गगाः स्भर्या मालभारिणी ।। ओजे ससजगगाः । समे सभरयाः । यथा “ इह वासकसज्जिका विलासं वहते शारदशर्वरीवरेण्यम् । अवतंसितकैरवोज्ज्वलश्रीविकसत्तारकमालभारिणीयम्' नितम्बिनीत्यन्यः । औपच्छन्दसिकभेदावेतौ १८ ०भातल्गा न्जन्सगा विलसितलीला । औजे भद्वयं तलगाश्च । युजि नजनसगाः । यथा " विक्त्रनिरीक्षणभङ्गिप्रणयी भ्रमति धनुर्विलसदिषुरनङ्गः। भृत्य इवाशु यदाज्ञां विदधद्रमयति सा नवविलसितलीला ॥"१९ ०प्रन्जनलगा अन्जभजनसाष्टेमानिनीः ।। ओजे भरनजनलगाः । जैरिति दशभिर्यतिः । युजि नजभजनसाः टैरित्येकादशभिर्यतिः । यथा “मानभतामिदं तृणमिव जीवितमिति न किं कलयसि शात्सि रोहिणि न यत् त्वमपि निजपतिम् । दक्षसुते कलङ्कय पितृगोत्रमलमधुना चिरमथ मानिनीजनवधानुमतिघटनया' २०