SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ७८ छंदोनुशासन ० रो जल्गाः कामिनी ॥ ओजे रगणः । युजि जरलगाः । यथा “निर्वृति, विधेहि हस्तगामिनीं। सर्वथा, जहीहि हन्त कामिनीम् ॥" २१ रो बज्रा शिखी ॥ ओजे रगणः । युाजे जरजराः । यथा “ योषितो, वियोगदुःखखिद्यमानमानसाः । दन्दहत्कटुस्वनैनिहन्ति निश्चितं शिखी ॥" २२ ०रो बज्रा गौ नितम्बिनी ॥ ओजे रगणः । युजि जरजरजगाः । यथा “ सर्वथा, विरिश्चशङ्करामराधिराजकेशवर्षयः । भेजिरे, यदुत्पथं चिराय तत्र कारणं नितम्बिनी।" २३ ०रस्त्रिों ल्गो वारुणी ।। ओजे रगणः । युजि त्रीन् वारान् ब्रौ जरजरजरलगाः । यथा “ उत्तम, घनाविनश्वरप्रमोदकारणं कृतिन्यदीहसे सुखम् । निर्मलं, तदा शमामृतं पिवानिशं सुदारुणां विमुञ्च वारुणीम्"२४ ०रश्चतुज्रौं वतंसिनी ॥ ओजे रगणः । युजि चतुरो वारान् नौ जरजरजरजराः । यथा “ शोभते, धनुर्लतेव पुष्पधन्वनः शिरीषकोमलाङ्गिका सरोजलोचना । बालिका, जपासहोदराधरा मधुककान्तिमत्यशोकपल्लवावतंसिनी ।।" २५ कामिन्याद्या व्यत्यये वानरीशिखण्डिसारस्यपराहस्यः ॥ कामिनीशिखिनितम्धिनी वारुणीवतसिन्य ओजयुक्पादयोर्व्यत्यये यथासंख्य वानरीशिखण्डिसारस्यपराहंसीसंज्ञाः । कामिनीव्यत्यये वानरी । यथा " नियम्य गाढसन्ततैः, सद्गुणैः । सखे स्थिरां कुरु श्रियं, वानरीम् " २६ शिखिव्यत्यये शिखण्डी । यथा “तपात्यये घनध्वनन् मुदङ्गके, कुर्वते । अखण्डषड्जगीतयः शिखण्डिनस्ताण्डवम् ” २७ नितम्बिनीव्यत्यये सारसी । यथा “त्वमब्जलोचने शरस्त्वदीयमेतदाननं, चन्द्रमाः । झण. झणायितस्वनापि मेखला विभाति ते, सारसी ॥” २८ वारुणीव्यत्यये अपरा यथा “ जिन त्वदीयशासनादृते विवेकदीपको भवत्यय न क्वचित् । तमश्छिदाक्षमं हि तेज एकमूर्जितं प्रसूत इन्द्रदिक् नापरा" २९ वतंसिनीव्यत्यये हंसी । यथा “ त्वदारवे कृतस्पृहाऽश्रु विस्मृतस्वनिस्वना बकी जगाम, साधुना । मूकतां सरो विकस्वराम्बुजकारं प्रियप्रणीतचाटुका
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy