SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ छंदोनुशासन " नृपते तव कार्मुकवंशान्निष्पतिता शितसायकमाला । क्षितिभृच्छिरसि प्लवमाना वेगवती बत नूतनरेखा ।" आपातलिकेयम् । ५ भिगगा नजज्या द्रुतमध्या ॥ ओजे भगणत्रयं गुरुद्वयं च युजि नजजयाः । यथा “ वीरजिनेन्द्र भवत्पदमपद्म भ्रमर इव द्रुतमध्यगमद्यः । मुक्तिवधुपरिरम्भण सौख्यं करतलगामि कृतं खलु तेन ।।" उपचित्रा । आपातलिकापरान्तिकेयम् । ६ तज्रगा मस्जगगा भद्र विराट् ॥ ओजे तजरेगाः युजि मसजगगाः । यथा “पश्येद्भगवन् पदारविन्दद्वन्द्वम् भक्तित एकदापि यस्ते । विश्रद्भवनाधिपत्यमेकं भद्रं भद्रविराट् भजेत सोऽपि ।" औपच्छन्दसिकमिदम् । ७ ०सजस्गा भर्नगगाः केतुमती ।। ओजे सजसगाः । युजि भरनगगाः । यथा “ प्रसरद्रजःस्थगितसूर्यो केतुमतीमुदीक्ष्य तव सेनाम् । वसुधापते दिवमिवात्मनाशमशङ्कत त्वदरिवर्गः ॥" ८ ताजगगा जतजगगा आख्यानकी ॥ ओजे ततजगगाः । युजि जतजगगाः । यथा “ त्वद्वैरिभूपैरियमागतोच्चैर्मरालनादैर्मुखरा शरच्छीः । आख्यानकीव त्वदनीकयात्राोत्सवस्य सद्यश्चकितैरुदक्षि ।।" आख्यानकी वार्ताहारिका । ९ ० व्यत्यये विपरीतादिः ।। व्यत्यये इति ओजे जतजगगाः । युजि ततजगगाः । विपरीतादिविपरीताख्यानकीत्यर्थः । यथा “ अमंस्त ते दुर्नयचेष्टितानामाख्यानकी या विपरीतवृत्तिम् । पुरः सखीनां ब्रुवता विपक्षनाम त्वया संप्रति लज्जिता सा ॥” एतयोश्चोपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमत्र पाठः । १० जर्जा जज्रगा यववती॥ ओजे रजरजा युजि जरजरगाः । यथा “ वन्यसैरिभा भवद्विपक्षधाग्नि निरन्तरेन्द्रनीलबद्धभूमिभागे । न्यामुखं प्रकुर्वते मुधा वितयं विनीलविस्फुरद्यवान्वितां धरित्रीम् ॥” यवान्वितां यववतीमित्यर्थः । छन्दोवशाच्च यवान्वितामित्युक्तम् । ११ ० व्यत्यये षट्पदावली ।। व्यत्यये इति ओजे जरजरगाः युजि रजरजा । यथा “नवोदयं चिरादुपेयिवांसमर्क स्वागतानि पृच्छतीव संमदेन । सरोजिनी विकस्वरा निशावसाने षट्पदावलीकृत
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy