SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ छदोनुशासन " पीनघनोन्नतवृत्तविशालतरस्तनमण्डलगाढनिपीडनकण्टकितांगः कोमलषड्जमृणाललतादृढवेष्टितकण्ठतटः परिचुम्बनविभ्रमपात्रम् । वासगृहे बहलोचलितागरुधूमलतानिचिते शयने मृदुनि क्षणदायां यो दयितां रमयत्यतिसम्भ्रममानजुषं स भुजङ्गविलासधुरामिह धत्ते ।।" एकमेकैकभगणवृद्धयाऽन्यदप्युदाहार्यम् । ४१० ०नाभ्यां पश्चमात्रैरुत्कलिका ।। द्वाभ्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रैगंणैरुत्कलिकानाम् । यथा “स्मितबकुलशिरीषक कैल्लिककोलनव्यप्रसूनावलीपरिमलविलोलरोलम्बलीलाकुलीकृताखिलचारुलीलावने । मृदुमलयसमीरशैलूषशिक्षाक्रमानुगुणविविधाङ्गहारप्रयोगप्रपञ्चप्रवल्गल्लतानर्तकी - रम्यरङ्गावनिः । अभिनवसहकारकोरकास्वादमाद्यस्पिकयुवतिपञ्चमोच्चारमन्त्रास्त्रसाधितविषममानिनीमानदुर्गः समन्तादयं कमिव सपदि सन्ततोत्कलिकमिह न विधत्ते जनं हेलया निर्जिताशेषलोकस्य देवस्य कामस्य निर्व्याजबन्धुर्मधुः।।" ४११ एवमेकैकपञ्चमात्रवृद्धयाऽन्यदप्युदाहार्यम् । दण्डकप्रकरणम् । ० इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोनुशासनवृत्ती समवृत्तव्यावर्णनो नाम द्वितीयोऽध्यायः ॥ २ ॥ इदानीमर्द्धसमवृत्तव्यावर्णनार्थमुपक्रम्यते । १ ०ओजयुजोः ॥ अधिकारोऽयमाविषमवृत्तेभ्य उपतिष्ठते । तत्रौ विषमं युक्समं लोकसिद्धं । तत्र २ सिल्गा नभभ्रा हरिणप्लुता ॥ पाद इति चानुवर्तते । ओजपादयोः सगणत्रयं लघुगुरू च युक्पादयोनभभरा यत्र वृत्ते सा हरिणप्लुता । यथा “ नृप शैलशिलाशयनासनाकन्दफलाहरणाः सदा । निवसन्ति वने भवतो रिपोस्तरुनिकुञ्जगता हरिणप्लुताः ॥” प्राच्यवृत्तिरियम् । ३ सिल्गा भिगगा उपचित्रम् ॥ ओजपादयोः सगणत्रयं लघुगुरू च । युजोगणत्रयं गुरुद्वयं च । यथा “ अयमत्र नृपः सचिवस्त्वसावेष कुमार इतः प्रतिहारः । उपचित्रमिति त्वदरेगेहे वक्ति मिथः किल पान्थसमूहः ॥” ४ ०लोनं वेगवती ॥ उपचित्रमेव लघुना रहितं वेगवती । ओजे सिगौ युजि भिगगा इत्यर्थः । यथा
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy