________________
छंदोनुशासन
४०५
।
व्याः सिंहविक्रीडः ॥ यत्र यथेष्टं यगणाः प्रयुज्यन्ते स सिंहविक्रीडः । यथा “ कचित्पङ्कशङ्का भ्रमत्कोलदंष्ट्रा समुल्लेखनिष्पिष्ट वेश्मान्तकाचावनीकं क्वचिन्नालिकेरीफलास्फालनव्यशाखामृगश्रेणिपर्याकुलोद्यानभा गम् । क्वचितप्तमज्जन्महासैरिभोद्दाम शृङ्गाप्रघातोच्छलद्दीर्घिका वारिसान्द्र क्वचित्सिंहविक्रीडबूत्कारबोरं चुलुक्येन्द्र जज्ञे पुरं त्वद्विपूणामिदानीम् ॥ " एवमेकैकयगण वृद्ध्याऽन्यदप्युदाहार्यम् । ४०६ ● गावनङ्गशेखरः || यत्र यथेष्टं निरन्तरौ लघुगुरू प्रयुज्येते सोऽनङ्गगशेखरः । यथा “ विशालभाललोलपूर्णमानकज्जलोज्ज्वलालक द्विरेफमालिकोपशोभिते विबुद्ध हावमुग्धचारुपक्ष्मलालसभ्रमत्सुतार दीर्घनेत्रपत्र सुन्दरे । अमन्दकुन्दकुड्मलाग्र कोमलो - सद्युतद्ध शुद्धदन्तपङ्क्ति केसरालये प्रियामुखाम्बुजेऽधरं चिराय मध्वि - वापिवन्ननारतं भवेदनङ्गशेखरः ॥ " एवं लघुगुरुवृद्ध्याऽन्यदप्युदाहार्यम् । ४०७ ०ग्लावशोकपुष्पमञ्जरी । यत्र यथेष्टं निरन्तरौ गुरुलघु प्रयुज्येते सोऽशोकपुष्पमञ्जरीनामा दण्डकः । यथा “ अस्तमाश्रितस्तुषारभारपातदग्धसर्व पुष्पजातिसञ्चयो हिमर्तुरथ सर्वतो वसन्तनामधेय एष जृम्भति प्रियः सखा तवेह देव पुष्पचाप । विष्टपत्रयीपराजयेच्छया गृहाण नूतनान् शिलीमुखानखण्डितैकवीर चारुचूत कोरका नशोक पुष्पमञ्जरीनेवाः स्मितानि केसराणि पाटलाश्च ।।" एवं गुरुलघुवृद्ध्याऽन्यदप्युदाहार्यं । ४०८ • तागौ कामवाणः ॥ यत्र यथेष्टं तगणा अन्ते गुरुद्वयं च प्रयुज्यते त्वद्विप्रयोगे नवे बालिकाया मनोभूशरक्लेशशान्त्यै प्रयत्नात्सखीभिः समन्तात्पाथोजिनी पल्लवैः कल्पितं चारुतल्पं समासूत्रिता नूतनैहरयष्टिर्मृणालैः । रम्भादलैः कोमलैर्निर्मितं तालवृन्तं कृतश्चान्दनेन द्रवेणाङ्गरागः किलास्यास्तीव्यथां प्रत्युतै तद्वितन्वत्समग्र कठोराशयाऽशिक्षिताद् कामबाणत्वमुग्रम् ।। " एवमेकैकतगणवृद्ध्याऽन्यदप्युदाहार्यम् । ४०९ ० भागौ भुजङ्गविलासः यत्र यथेष्टं भगणाः प्रयुज्यन्तेऽन्ते च गुरुद्वयं स भुजङ्गविलासः यथा
८८
स कामबाणः । यथा
७४
99