________________
७३
छदोनुशासन शाखिगुल्मानि कूलकषाकूलरन्ध्राणि च स्फुरति तव चण्डकाले कराले कृपाणे सदा संश्रयन्ते महीपालचूडामणे" एकैकरगणवृद्ध्याप्युदाहार्य । ४०१
याः सिंहविक्रान्तः ।। लोः परे यथेष्टं यगणा यत्र स सिंहविक्रान्तः । यथा “ तरुणतरणितेजःप्रतप्ता वराहा इवारण्यभागेषु मुस्ताक्षति पल्वलान्ते विदधति किल केचित्तथान्ये महाभूभृतां कन्दराः कौशिकौघा इवाभिश्रयन्ते । विपिनगहनमध्ये पुनः केऽपि शाखामृगक्रीडितं बिभ्रति प्रत्यनीकक्षितीशाः प्रकटयति सदा सिंहविक्रान्तलीलामनूनाम् त्वयीमां धरित्रीश चौलुक्यचन्द्र।।" एवमेकैकयगणवृद्ध्याप्युदाहार्य ४०२ ०लूगिभ्यां मेघमाला ॥ लघुषटकाद्गुरुत्रयाच्च परे यथेष्टं यगणा यत्र प्रयुज्यन्ते सा मेघमाला नाम दण्डकः। यथा “अविरलमदपाथोनिझरप्लावितक्षोणिपीठा महाशैलशृङ्गायमाणाः कपिशरुचिलसदन्ताशनिद्योतरौद्रा महागर्जितत्रासिताशेषलोकाः । रिपुनरपतिमातङ्गाः क्षणादेव देव प्रणाशं ययुः संयुगान्तयुगान्तानिल इव विपुलपाणे महामेघमाला महीपालधुर्य त्वयि प्रोजिहाने" एवमेकैकयगणवृद्ध्यान्येप्युदाहार्याः । ४०३ यथेष्टं रा मत्तमातङ्गः ॥ स्वेच्छया यत्र रगणाः प्रयुज्यन्ते स मत्तमातङ्गः । पुनर्यथेष्टग्रहणं लूगिभ्यामित्येतस्य निवृत्त्यर्थ । यथा “ पुष्पचापस्य चापश्रियं विभ्रती भगुरभ्रूविलासैः स्मितस्मेरकस्तूरिका केलिपत्रावलीभङ्गिविभ्राजिगण्डस्थलेनेन्दुबिम्बानुकारं सदा कुर्वती । चारु वक्रोक्तिगभैंर्वचोभिर्विदग्धैरमन्दं च पीयूषनिष्पन्दमातन्वती मत्तमातङ्गालीलागतिः काञ्चनच्छेदगौरी मुदं कस्य नाविष्करोति प्रिया ॥" एवमेकैकरगणवृद्धयाऽन्यदप्युदाहार्यम् । ४०४ ०साः कुसुमास्तरणः ।। यथेष्ट सगणा यत्र प्रयुज्यन्ते स कुसुमास्तरणः । यथा “सुभग त्वयि दूरमुपेयुषि सा न कदाचिदुपैति विलासगृहाभिमुखं विकचाब्जवते न ददाति दृशं शिशिरागरुचन्दनपक्कमपा कुरुते । नच हृष्यति चाटुकरीषु सखीष्वपि पचपलाण्डुनिभं वहते वदनं कुसुमास्तरणानि पिनष्टितरां परिमुह्यति शीतलशीतमयूखकरैः” एवमेकैकसगणवृद्धयाऽन्यदप्युदाहार्य ।