________________
छदोनुशासन धत्ते विधत्तञ्जनादिविलासं च कैलासपृथ्वीभतः । कलयति लवणोदधिः क्षीरपाथोधिलीलायितं शेषशोभामशेषाह्वयः प्राप्नुवन्तीन्द्रनीलाश्च मुक्तामणीनां समासादयन्ति त्विषं विचकिलहरहासनीहारहारेन्दुशङ्खावदातरमीभिः स्फुरद्भिर्महीपालचूडामणे शासनैश्वर्यवज्रायुधः त्वद्यशोराशिभिः आदिशब्दात्पञ्चदशभिः समुद्रः । षोडशभिर्भुजङ्ग इत्येवमादयो यथेष्टकृतनामानो यावदेकोनसहस्राक्षरपादस्तावद्भवन्ति । ३९८ नाभ्यां रखद्यादयः प्रचितः ।। नगणद्वयात्परे यादयः सर्वे वर्णगणा यदा भवन्ति तदा प्रचितः । रवदित्यतिदेशात् सप्तभिर्येः प्रचितः । ततः परमेकैकयादिवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोदामशङ्खादयोऽत्रापि भवन्ति । यथा “ विलसदुरुतरवारिप्रचण्डे महावाहिनीव्यूहविस्फारणशक्तौ प्रकटयति रुचिराखण्डकोदण्डदण्डं दिशुत्युच्चकै राजहंस प्रणाशम् । प्रशमयति निखिलं मेदिनीचक्रसन्तापविस्फूर्जितं न्यत्कृतार्कप्रतापे प्रचितघनबलयुक्तो नभस्यायमाने चुलुक्येश्वरे को न धत्ते प्रमोदम्" ।। एवमादिषु शेषगणेषूदाहार्य । एकैकगण वृद्ध्या चार्णिवव्यालजीमूतलीलाकरोदामशङ्खादयोऽप्युदाहाः । ३९९ ० नम्म्यामष्टादिराः पन्नग-दम्भोलि-हेलावली-मालती-केलि कडूल्लिलीलाविलासादयः ॥ नगणाद्गुरोश्च परे अष्टादिसंख्ये रगणा येषु ते यथासङ्ख्यं पन्नगादयो दण्डका भवन्ति । तत्राष्ठरगणः पन्नगः । यथा " अविकलध्यानसन्तानधूमध्वजज्योतिराडम्बरप्लुष्टनिःशेषकर्मेन्धनो विदलितोदप्रभूयःकषायश्चिरायैष पायादपायात्स वः पार्श्वनाथो जिनः । कमठदैत्ये च गाढोपसर्गक्रियाकर्कशे तत्प्रतीकारबद्धप्रयत्ने भृशं प्रकटितात्यन्तभक्ती तदा पन्नगेन्द्रे वयस्याभवन्दृष्टिपाताः कृपाः समाः" एवमेकै करगणवृद्ध्याऽन्येपि षडुदाहार्याः । ४०० °लोर्यथेष्टं राश्चण्डकालः ॥ लघुपञ्चकात्परे यदृच्छया क्रियमाणा रगणाश्चण्डकालः । यथा “विविधर्मा गमेखलाश्रेणिविश्राणितश्रीणि हित्वापुराण्याशु चान्तः पुराण्युच्चकैःकरटितुरगादिसेनासहस्राणि च स्वीकृतच्छद्मकर्मादिवेषास्त्वदीयद्विषः । प्रतिदिशममी गिरीणां महाकन्दराः