________________
छंदीनुशासन समुपवरणविषये व्यधायि सखीजनैः, अङ्गे वासः कर्पूराम्भस्तिमितशुचि तुहिनकिरणकरपरिभवचतुरधवलिमकुचतटयुगे सुमौक्तिकदाम च । रम्भागुल्मं लीलागारं मलयजरसकलितवसुधामभिनवविकचकुमुदवनदलसमुदयश्च तल्पककल्पना नव्या मौलौ मल्लीमाला तदिदमखिलमपि दवहुतवहरुहिपरिचितमहिम विरचयति मुहुः प्रदाहमहाज्वरम् ' ३९० शेषजातिप्रकरणं । अथ दण्डकाः ।। " यत्किञ्चित् दृश्यते छन्दः षविंशत्यक्षराधिकम् । शेषजात्यादिकमुक्त्वा तत्सर्व दण्डकं विदुः” तत्र ना चण्डवृष्टिः॥ ना इति नगणद्वयं यं इति रगणसप्तकं च समाहारो द्वंद्वः । यथा " अभिनवतरदुर्मदोद्दामपाथोदमाला प्रतिच्छादिते सर्वतो व्योमनि स्फुटितकुटजकेतकीपांसुपुञ्जच्छटाच्छोटिताशेषदिश्यैन्द्रदिग्मारुते । मुदितनिखिलनी लकण्ठैः कृते क्रूरकेकारवव्याकुले ताण्डवाडम्बरे कथमिव चलितोऽसि भोः पान्थ हित्वा प्रियां चण्डवृष्टिप्रपाताकुले वर्त्मनि" चण्डवृष्टिप्रपात इत्यन्ये । ३९१ . यथोत्तरमेकैकरवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोदामशङ्खादयः चण्डवृष्टरूर्वमेकैकरगणवृद्धाः क्रमेणार्णादयो दण्डकाः । तत्र नगणाभ्यां परैरष्टभी रगणैरणः । यथा “ अविरलगुरुशाखिनोऽरण्यभागा-समुत्तुङ्गशृङ्गावलीशालिनः सर्वभूमीभतो विपुलतरतरङ्गसंसङ्गिनीः कूलिनीरुच्छ्रितानेकसौधान्पुरग्रामदेशानपि । स्थगयति तमसि प्रपन्ने सपनत्वमुन्मुक्तधैर्यस्य पाथोनिधेर्मङ्घ रज्यद्वपुः कुपित इव तदर्णसः प्रोद्ययौ तस्य संहारकारी समुद्यत्करोऽयं निशावल्लभः " ३९२ नवभिरर्णवो यथा " प्रसूतनिविडमारुतान्दोलिताश्वत्थसंशीर्णपर्णौघविस्फारवातोलिकापूर्यमा• णाम्बरे घनवनदवदह्यमानाखिलकूरशार्दूलपोतोद्भटोन्नादसंस्रस्तम तङ्ग्यूथाकुले। दिनकरकरतप्तकोलावलीश्रीयमाणातल्ले लसल्लोलकल्लोलवाचालमाद्यन्महार्णव पयसि- ननु प्रिय ग्रीष्मकालेऽधुना मा स्म गा मानय त्वं हि पीनस्तनाश्लेषसौख्यानि मे " ३९३ दशभिर्व्यालो ॥ यथा “ चिरवहदरःट्टसम्पूर्यमापो