________________
छंदोनुशासन जुषि बत तरुणिविफलमतिचतुरतरनयनगतिमिह यतिनि तनुषे । व्रज मदन निजसदनमपसरणमुपरचय पिकतरुणरणरणकमुपजनयसि न हि प्रकटयसि मधुसमय किमिति तव मदमुदितमधुपकुलकलरणितमुखरललितलताम्" ३८६ ०९ मातनीजभ्राः पिपीलिका जणैः । मद्वयं तगणो नगणचतुष्टयं जभराः । जणैरिति अष्टभिः पञ्चदशभिश्च यतिः । यथा " निष्प्रत्यूहं पुण्यां लक्ष्मीमविरतमभिलषसि यदि रमयितुं सुखं च यदीच्छसि स्थातुं न्यायोन्मीलबुद्धे लघुभिरपि सह बहुभिरिह कुरु मा विरोधपदं तदा । विस्फूर्जपूत्कारं क्रीडाकवलितसकलमृगकुलमजगरं भुजङ्गममुन्मदं सङ्घातं कृत्वा पश्यैता ग्लपितवपुषमनवधिरचितरुजा अदन्ति पिपीलिकाः" ३८७ ० ० एषैव नीपरतःपञ्चदशपश्चदशलवृद्धा क्रमेण करभ ॥३५ ।। पणव ॥ ४० ।। मालाः ॥४२॥ एषैव पिपीलिका । चतुर्यो नगणेभ्यः परतः पञ्चभिर्दशभिः पञ्चदशभिश्च लवुभिवृद्धाः शेषगणेषु तथैव स्थितेषु क्रमेण करभादयो भवन्ति । तेऽत्र पञ्चभिवृद्धा पिपीलिकाकरभः । यथा “नित्यं लक्ष्मच्छायाछन्नः कलयतु कथमिव तव वदनरुचिममृतरुचिश्चिरं क्षयसंयुतः तुल्यं नाब्जं स्फूर्जद्धूलीविधुरितजननयनयुगमतिमृदुकरचरणस्य निर्मलचारुणः । कण्ठस्येयं दासी श्यामापरभृतयुवतिरपि मधुपरिचयकलविरुतिनिसर्गकलध्वनेः भ्रूवल्लीभङ्गे छेकाया हरिणनयनमचतुरमतिललिततनु करभोरु ते सदृश दृशः " ३८८ ३५ दशभिर्वद्धा पिपीलिकापणवः ॥ यथा “रुन्दोऽमन्दः कुन्दछायः शरदमलघनतुहिनविकचकुमुदवनहरहसितसितः शशाङ्ककरोज्ज्वलः तारः पारावारापारः स्थलजलगगनतलसकलभुवनपथधवलनपरिचितः प्रसाधितदिङ्मुखः । लोकालोकच्छेदं गत्वा दृढकठिनविकटदिगवधितटघटनविवलनचलयितो विशुद्धयशश्चयः प्रोत्तुङ्गः श्वेतप्राकारो ध्वनितगुणपणव तव जयति नृपवर नवललितवसत. जेत्रितयश्रियः " ३८९ ५° पञ्चदशभिर्वृद्धा पिपीलिकामाला ॥ यथा " उत्फुल्लाम्भोजाक्ष्यास्तस्याः कुसुमशरसुभग तव विरहदव इह हि जयिनि