________________
छंदोनुशासन ३८१ ० २६ उक्तादिजातिप्रकरणम् । ० शेषजाती मतिनायि मालाचित्रं टैः॥ मस्तगणत्रयं नगणद्वयं यगणत्रयं च एषां सभाहारद्वन्द्वः । टैरिति एकदशभिर्यतिः । यथा “ पान्थाः शीघ्रं यात नातः परं वः क्षणमपि यदिह शुभं तत्र गत्वा यध्वं कान्तां नो चेदत्र तां देवतां स्वां स्मरत सपदि भवतो हन्त संहतुकामः । कालोऽयं जीमूतनामाभ्युपैति स्तनितवधिरितमहीमप्डलश्वप्डविद्युन्मालाचित्रास्त्रप्रहारीति दूरात्कथयति शिखिनिवहस्तारकेकारवेण ' ३८२ २७ ० म्तो रतौ निसल्गाः प्रमोदमहोदयो घछटैः ॥ मतयता नगणत्रयं रसलगाश्च । घछटै रिति चतुर्भिः सप्तभिरेकादशभिश्च यतिः । यथा “काप्युद्ग्रीवा प्रास्थितबद्धोत्कण्ठं करकलितशिथिलवसना दधाव च काचन स्तम्भं दधे कापि च काचिच्चासीदति शयितबहलपुलकाङ्कुरोल्लसितानिका । काचिच्चक्रे भूषणमङ्गे काचित्तिलकमकृत नवमलिके चुलुक्यमहीपतौ यात्रां कृत्वोपेयुषि पौरस्त्रीणां समजनि निरवधिरधुना प्रमोदमहोदयः" ३८३ ॥ यथा वा ॥ “ वन्द्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्यपि देवता देवैः स्तुत्या किन्नरगेया भक्त्या वरचरितमहिषमथनी जगत्त्रयनायिका । सिद्धद्धथैया केसरियाना काम रणचतुररसिकहृदया त्रिलोचनवल्लभा वीरैः पूज्या दर्पणपाणिर्ननं गुणनिलयलटभललिता सतीषु धुरन्धरा" ३८४ ० १६ द्विर्भजसना भ्यो नृत्तललितम् ।। द्वौ बारौ भजसन इत्येते गणाः । भयौ च केवलौ । भजसनभजसनभया इति । यथा “ अद्य कलहंसललने ललितमन्थरगतौ सपदि मानय
सपनरहितं स्वं कोकिलविलासिनि विधेहि कलगीतिरचनाचतुरतामदममन्दमति, मत्ता । दुर्ललितनृत्तललितं युवमयूर रचय त्वमपि सम्प्रति चिराय गतशङ्कः
सुर्वगुणकेलिस्दनं चकितबालमृगलोलनयनां प्रियतमामिह विना ताम्" ३८५ ० ० द्वादशना ल्गो ललितलता त्रिज्ञैः । द्वादशनगणा लघुगुरू च । त्रिरिति त्रीन्वारान् दशभिर्यतिः । यथा “ जिनचरणसरसिरुहपरिचरणरतमनसि परमशममुपदधति कलितपरमलये विषयबलदलन