________________
छंदोनुशासन
८८
भुजङ्गविलासमजस्रं कलयति मधुकर इह मुदितः " ३७६२० उत्कृतौ मौ तो निरसल्गा भुजङ्गविजृम्भितं जटैः । ममता नगणत्रयं रसलगाः । जटैरिति अष्टाभिरेकादशभिश्च यतिः । यथा क्वापि स्वैरं क्रूरक्रीडन्महिषशभ्रम चकितवर कुरङ्गकुलं क्वचित्क्वापि क्रीडाव्यप्रक्रोडं क्वचि - दपि मदजडविहरन्मतङ्गजसङ्कुलम् । सिंहवेडारौद्रं क्वापि क्वचिदपि विषविषममहाभुजङ्गविजम्भितं श्री चौलुक्यक्षोणीनाथ स्फुटमजनि भवदरिमहीभुजामधुना पुरम् । ३७७ • मनूसगगा अपवाहो झचचैः ॥ मो नगणषट्कं सगगाश्च । झचचरिति नवभि: षड्भिः षड्भिश्च यतिः । यथा यः श्लाघ्यः प्रतिदिनमपि मदनदहन गरुडगमन चतुरास्यायेंर्गेयो यः सुरपतिपरिषदि च किमपि मुदितविबुधरमणीवृन्दैः । चौलुक्यान्वयजलनिधिहिमकर कियदिह तव नृपवर तस्यैतद्यत्सर्वं कृतमरिबलमपरथमपभटम पगजमपवाहं च " ३७८ ० भो नौ स्मो निल्गा आपीडो हैः ॥ भननसमा नगणत्रयं लघुगुरू च । ढैरिति चतुर्दशभिर्यतिः । यथा “पश्य विविधवरविटपिनिकुञ्जश्यामीकृतविपुलतरकटकभूराश्रमश तलसदिभहरिमैत्रीप्रेक्षारसवदमरयुवतिजनः । रैवतक गिरिरयमिह पुरस्ताद्यस्मिन् जिनचरणनमनमिलिताशेषसुरपतिपतदमलपुष्पा पीडैर्भवति सुरभिरयमनिलः ३७९ ० न्जौ न्सौ भनिल्गा वेगवती ॥ नजनसभा नगणत्रयं लघुगुरू च । यथा “ नभसि भृशं स्तनति भरितदिकन्दरमभिनवजलधरपटले धृतमुदि नृत्यति मधुरकेका कलकलजुषि समदशिखिकुले । स्फुटितकदम्बकुटजसुमनः सर्जपरिमलमिलदलिनि च वने मनसिशये च भुवनजयसंवेगवति बत भवसि पथिक कथम् ३८० • नजभ जिभ्ज़ल्गाः सुधाकलशो ढैः ॥ जत्रयभजलगाः । ढैरिति चतुर्दशभिर्यतिः । यथा अयमनुनीय सर्वसुर - कार्यकृते मम वल्लभेन दिविषत्पतिना ननु विनियोजितः कवलितश्च ततस्त्रिपुरान्तकृन्नयनहव्यभुजा । इति हृदये विचिन्त्य परिजीवितुं मकरध्वजं सपदि पूर्वदिशा नियतमुदासि सम्प्रति सुधाकलशः परिपूर्णशीत रुचि बिम्बभिषात् " ||
०
नजभा
""
८८
८८