________________
छंदोनुशासन तदेव कृतं शिवाभिरिह सारे गगनसीम्नि च वृन्दारकप्रेयसीभिस्तथा " ३६५ २३ संकृतौ तौ सौ भौ न्यौ तन्वी ठैः। भतनसभभनयाः । टैरिति द्वादशभिर्यतिः । यथा “दन्तमयूखाः शशधररुचयो वागमृतं रतिरमणधनुभ्रलोचनलक्ष्मीस्तुलयति कमलं नूतनविद्रुमसुहृदधरश्च । चम्पकगर्भप्रतिकृति च वपुहंसगतेरनुहरति व यातं वच्मि विशेषं कमपरमथवा रम्यमहा किमिव हि न हि तन्व्याः " ३६६ ० नौ भनौ नौ न्यौ ललितलता छछैः ॥ ननभनजननयाः छछैरिति सप्तभिः सप्तभिर्यतिः । यथा “ परिमलविलुठन्मधुकरकवरीविरचितनिरवधिशोभामभिनयकुसुमस्मितसुभगरुचिं मृदुतरकिसलयपाणिम् । इह मधुसमये विलसति नियतं मनसिजशरपरिविद्धस्तनुललितलतायुवतिमयमहो कलयति मलयसमीरः ” ३६७ ० नौ रूर्मेघमाला ।। नगणद्वयं रगणषट्कं च। यथा त्रिभुवनविजयाय बद्धाभिमानस्य श्रृङ्गारयोनेः प्रयाणक्षणे, कनकघटितदण्डमेतत्किमाभाति नीलातपत्रं लसत्सर्वतः । नवतपविगमश्रियादीप्रदीपेऽथ किं कज्जलार्थ धतं कपरं भ्रममिति विदधाति वीक्ष्योन्नतां मेघमालां जनो विद्युतालङ्कृताम् " भृङ्गाब्जनीलालकेत्येके । ३६८ ० भृ सुभद्रं । भूरिति भगणाष्टकं । यथा "शौर्यमृगेन्द्र चुलुवयनरेन्द्र महत्त्व गिरीन्द्र गभीरिमसागर दोष्णि चिरं निखिलाचलसिन्धुयुतं वसुधावलयं तव बिभ्रति । अद्भुतभारपरिश्रममुक्तिसमुद्भवसितो भुजगाधिपतिस्त्वयि शंसति सन्ततमेष सुभद्रमखण्डमहोदयमस्त्विति सम्प्रति " ३६९ ० भितनिसा दुतलघुपदगतिः ॥ भत्रयं तगणो नत्रयं सश्च । यथा “ मुञ्चत नपुरकङ्कणकाञ्चीः कणितभरविरचितकलकलाः स्वीकुरुताशु गतिं समयोऽयं न खलु समदगजललितगतेः । सम्भ्रमवान् स्ववधूरनुशासगिरिसरिदभिमुखमतिकृपणान् सम्प्रति सिद्धपते तव याति द्रुतलघुपदगतिः रिपुनिवहः ॥" ३७० न्यौ तौ निसौ सम्भ्रान्ता॥ नयभता नगणत्रयं सश्च । यथा “ रचयतु जन्मस्नानविधौ वस्त्रिजगदधि