________________
छंदोनुशासन अत्र केचित्सप्तमभगणस्थाने जगणमिच्छन्ति । ३५९ ० मौ तो नील्गा मत्ताक्रीडा जडैः ॥ ममता नगणचतुष्टयं लघुगुरू च । जडैरित्यष्टाभिः पञ्चभिश्च यतिः । यथा “हस्ताक्षेपैरिं वारं विदलयति किल निकरमवनिरुहां पादानुच्चैः क्षोणीन्द्राणां विघटयति दशनकुलिशविकषणैः । वेगावेगात्पादन्यासैनमयति च फणिपटलमुरगपतेरित्थं मत्ता क्रीडामात्रं विरचयति नृपवर तव करिघटा ” ३६० ० ताज्जूल्गाः शङ्खः ॥ तगणात्परं जगणषटकं लघुगुरू च । यथा “चौलुक्यनरेश्वर वैभववासव धीर गभीरिमवारिनिधे सौन्दर्यमनोभवकान्तिनिशाकर सेवक कल्पतरो भवतः । को नाम गुणानिह सङ्कलयेत्किल वच्मि तु किञ्चन ते यशसां सम्पर्कमवाप्य स शङ्खधरोऽभवदद्रिसुताकमितुः सदृशः" ३६१ ० नाद् हंसगतिः ।। नगणात्परं जगणषटकं लघुगुरू च । यथा “ मदनगजेन्द्रमदोदयमादधती सहसा विमलप्रसरल्लवणिमसिन्धुरनिद्रितनीलसरोरुहचारुलसन्नयना । विशदतराम्बरसम्पदियं रजनीकरबिम्बमुखं दधती शरदिव संश्रितहंसगतिर्युवतिर्विदधाति न कस्य मुदम् " महातरुणीदयितमित्यन्ये । ३६२ ० त्रीनौ ाश्चित्रकम् ॥ रनरनरनरलगाः यथा “ श्रूयतां नृप कुमारपाल तव दर्शनत्वरितया व्यधायि यत् पादतामरसयोः सुवर्णकटके कराम्बुरुहयोश्च नू पुरे । हारदाम च नितम्बविम्बफलके भृशं हृदि च रत्नमेखला निर्ममे जतुरसोलिकेऽधरदले च चित्रकमधीरचक्षुषा ५ ३६३ . मौ स्भौ निग्लाश्चपलगतिः। भमसभा नत्रयं लघुगुरू च । यथा “ भूमिभृतामक्केषु विलासं स्वरुचिसदृशमतिहि विदधती सत्त्वरमानीता स्फुटमुच्चैः पटह इव नदति यशसि निजे । दुर्ललिता स्तम्बेरमकान्तेव नृपवर दृढतरगुणैः साधुभुजस्तम्भे भवता श्रीरति चपलगतिरिह निगडिता” ३६४ ० ज्सौ ज्सौ यिल्गा वृन्दारकम् ॥ जसजसा यत्रय लघुगुरू च यथा “तदविपरिताडनं सरभसं कचाकर्षणं स्वेच्छया चोजितं मुखाम्बुरुहचुम्बनं प्रति मुहुर्नखारुणं निर्विशङ्क जवात् । नरेन्द्रतिलक त्वदीयपरिपन्थिनां तुल्यकालं