________________
छंदोनुशासन न्गौ मद्रकं जैः ॥ भरनरनरनगाः । जैरिति दशभिर्यतिः । यथा “देव जगत्त्रयैकतिलक प्रभो प्रणयिलोककल्पविटपिन् पुण्यवतां शिरोमणिपदं व्यभाजि जिननाथ तैरिह जनैः । ये विकचैश्चिराय चरणारविन्दयुगमर्चयन्ति । कुसुमैमंद्रकमन्द्रगीतिभिरभिष्टुवन्ति च चरित्रमत्रभवतः ३५४ ०स्तौ नौ स्रो गौं महास्रग्धरा जछैः ॥ सतत नसररगाः । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा “ अभिनागान्याति योऽयं सम मम (मम ममच) पुनर्यच्छिरो हुंकरोति प्रचलोऽयं यत्कवन्धः प्रहरति स तु मे प्राणनाथोऽस्तु - सख्यः । दलयन्यो दुष्टभपानहमहमिकया स्वर्गसीमन्तिनीनां परिशुश्रावेति वाचो वरवरणमहास्रग्धराणांरणेषु " ३५५ भृगौ मदिरा ॥ भृगाविति भगणसप्तकं गुरुश्च । यथा “हीविनियन्त्रणविघ्नमपाकुरुतेऽभिनवावतरद्वयसां प्रौढपुरन्ध्रिजनस्य तथा तिरयत्यपराधपदं सहसा । कोपपदेन च गोत्रपरिस्खलितं न च कारयते तदसौ कामसखी मदिरेह सतर्षमभाजि चिरं किल कामिजनैः” लताकुसुममित्यन्ये। ३५६ मत्यनीगा वरतनुः ।। मतया नगणचतुष्टयं गुरुश्च । यथा “ चक्षुःसौन्दर्य मृगवध्वां परभृतयुवतिषु मधुरगिरं, यातं हसीषु स्मितमुद्वद्धनवविचकिलकुसुमजतिषु । रोलम्बश्रेण्यां कचलक्ष्मी वदनरुचिमपि विकचकमले न्यासं कृत्वा सा खलु याता क्वचिदपि मम वरतनुरधुना” ३५७ म्सौ. ज्सौ सौ जगौ दीपाचिः ष्ठैः ॥ मसजसजसजगाः । ठेरिति द्वादशभिर्यतिः । यथा “प्रायो दुष्कृतकर्मसु स्वयममी प्रयान्ति पिशुनाः सहायतां यद्वत्तद्वद्वद निन्दनीय सुकृतक्रियासु भृशमन्तरायताम् । वही सन्ततजन्तुसकुलमहावनप्लुषि सखा समीरणो दीपार्चिष्यखिलोपकारिणि भवत्यकाण्डकुपितान्तकः खलु " ३५८ २२ ० विकृतौ जो जो जो भ्लो गश्च ललितण्टैः ॥ नजभजभजभलगाः टैरित्येकादशभिर्यतिः । यथा “निरयमहान्धकूपमसमान्धकारभरदुर्विलोकमतुलं, निपतितगाढमोहपटलान्धजन्तुविविधप्रलापतुमुलम् । प्रवचनचक्षुषेक्षत इमं चिराय तनुभत्तथापि वलवच्चपलतरेन्द्रियाश्च ललितैर्विकृष्ट इहतत्क्षणान्निपतति"