________________
छंदोनुशासन स्पलकाननं प्रीतिं चुलुक्यचन्द्र प्रकृतनृपकथागते त्वयि तु क्षणात्" ३४७ ० भ्रौ नौ नौ रो ललितविक्रमो औः ॥ भरनरनरराः । जैरिति दशभिर्यतिः । यथा “सद्गुणरत्नरोहणगिरे यशोधवलिताखिलाशामुखद्वेषिवधूमुखाम्बुजविधो वयं किमिव वर्णयामस्तव । यस्य वशंवदत्रिभुवनश्चिरं विबुधसुन्दरीमण्डलैर्जम्भरिपोश्चमत्कृतिरसं दधल्ललितविक्रमो गीयते' ३४८ मौ तनिसा मत्तक्रीडा जडैः । मद्वयं तगणो नत्रयं सश्च । जडैरिति अष्टभिः पञ्चभिश्च यतिः यथा “नो जानीते कृत्याकृत्यं विलुठति च धरणितल. शयने भूयो भूयो मूर्छा धत्ते दृढयति न शिथिलमपि वसनम् । अर्थापेतं निःसम्बन्धं वचनमपि वदति नदतितरां मत्तक्रीडामाप्ता बाला सुभग तव नवविरहविधुरा" ३४९ जतनिसाश्चन्दनप्रकृतिः ॥ रजता नत्रयं सश्च । यथा “दर्शनाद्यदीह सन्तापमपहरति तदपि बत तया नार्जितं धनं प्रभूतं जरसि सुखदमतिसरलतया । किन्तु चन्दनप्रकृत्या सखि सततमपि फलरहितया दुर्भुजङ्गघृष्टया यौवनमिदमफलमहह गमितम्" ३५० ० जभजिगः सिद्धिः ।। नजमा जगणत्रयं रश्च । यथा "सततनमत्पुरन्दरशिरःशुचिरत्नकिरीटमालिकाविमलमयूखशेखरितपादनखातिजालशालिनम् । विपुलदयानिधिं प्रणयिकल्पतरूं भजत जिनेश्वरं यदि भवकातरस्त्वमिह वाञ्छसि सिद्धिमनुत्तमां सखे ” चित्रलता रुचिरा शशिवदना चेत्यन्ये ३५१ ० नजीभ्रा वनमअरी। नगणो जगणचतुष्टय भरौ च । यथा “सह धनुषा समदो मदनः किल शीतदीधितिमौलिना सुहृदिह भस्मकृतस्तव दीप्तहुताशपिङ्गलया दृशा । इति हि मधो कुमते स्मर मा विचरान्तिके तरल वां विरहजुषां सकलज्वलिताङ्गभृतां दधद्वनमचरिः" ३५२ ० त्रीनौ रस्तरङ्गः ॥ रनरनरनराः यथा “निर्ममो भव विधेहि पञ्चपरमेष्ठिसंस्मरणमन्वहं संयमं कुरु भज क्षमा यदि समीहसे सुखमनश्वरम् । यौवनं किल तडिल्लताचपलमभचञ्चलमिदं धनं जीवितव्यमपि मारुताहतसरित्तरङ्गतरलं सखे" ३५३ ०१ आकृतौ भ्रौ नौ नौ