________________
छंदोनुशासन विक्रीडितम् ' ३२२ सौ सौ जौ र गो वायुवेगा । मसजसनजगाः । । छैरितिवर्त्तते । यथा “ त्यक्त्वा पुत्रकलत्रबन्धुसुहृदां व्यतिकरमञ्जसा नित्यं संस्मर वीतरागचरणाम्बुरुहयुगं रहः । हहो चित्त चिरं प्रसीद किमिदं न हि हतजीवितं, जानीषे घनवायुवेगनिहताम्रपटलगत्वरम् ” ३२३ ०यसौ सौ रौ गो मेघविस्फूर्जिता चचैः । यमनसररगाः चचैरिति षडभिःषभिश्च यतिः । यथा “ निरुधानस्ताप जगति कलयंश्चण्ड कोदण्डदण्डं पदं व्यातन्वानः सततमखिलक्ष्माभृतां चोपरिष्टात् । निकामं दुर्द्धर्षा दिशि दिशि समुल्लासयन्वाहिनीश्च त्वमुच्चैश्चौलुक्येश्वर घटयसे मेघविस्फूर्जितानि ” रम्भेति स्वयम्भूः । ३२४ ०यमौ सौ जौ गो मकरन्दिका ॥ यमनसजजगाः चचैरिति वर्तते । यथा “ इमां बाला त्रासाकुलमृगवधूविलोलविलोचनां किमु त्वं निःशको व्यथयसि मुहुर्वियातविचेष्टितैः । परिक्षोदं चण्डैर्मुसलपरीघैः सहेत न मालती मृदु भ्राम्यभृङ्गीपदपरिचयाद्गलन्मकरन्दिका " ३२५ ०रमौ न्सौ तौ गश्छाया ॥ यम नसततगाः चचैरिति वर्तते । यथा “ फलं कालाक्रान्तं कुसुममरसं पत्रं न भोगास्पदं बहिस्तत्कार्कश्ये किमपि सहजं निःसारमन्तर्वपुः । विवृद्धिं गृध्राणां धिगुपकरणं शाखाप्रपञ्चो न ते किमन्यत्ताल स्याद्विरलविरलाछायापि नो शीतला" ३२६ ० त्रिज्सौ गो रतिलीला ॥ त्रीन्वारान् जगणसगणौ गुरुश्च जसजसजसगाः चचैरित्यनुवर्तते। यथा “दुनोति बत तां कराम्बुजतले निवेशितकपोलां किमप्यहरहस्तथा कथमपि त्वदीयविरहामिः । यथा वरतनुर्न पङ्कजदलैन मौक्तिककलापैर्न चन्दनरसैन चन्द्रकिरणैः करोति रतिलीलाम्" ३२७ ०म्तौ सौ रौ गः पुष्पदाम उंछैः ॥ मतनसररगाः । ङछैरिति पञ्चभिः सप्तभिश्च यतिः यथा “सेयं साकाङ्क्षा त्वयि मृगनयना सजताङ्गी विलासै-लालोलभूदिवि कमलवनं कुर्वती नेत्रपातैः हंहो पश्यैतद्विरहविधुरया ते यया सावहित्यं प्रक्षिप्तं कण्ठे विकसितबकुलासूत्रितं पुष्पदाम" ३२८ ०म्तौ सौ तौ गोवश्चितम् ।।