________________
छंदीनुशासन स्मारं पराक्रमगर्वित कलयसि ललितं पौष्पं शस्त्रं मनोभव किं मुधा" ३०९ भ्रनिसा भ्रमरपदं झैः ॥ भरौ नगणत्रयं सश्च डैरिति नवभिर्यतिः यथा “वारिदमुक्तवारिभरपरिशमितघनरजा उद्गतरोहिणीशकरधवलितसकलककुपू । कस्य धृतिं ददाति न हि शरतुरजनिरियं चुम्बनलालसभ्रमरपदविदलितकुमुदा” ३१० ० म्सौ सौ सौ शार्दूलललितं हैः ॥ मसजसतसाः ठेरिति द्वादशभिर्यतिः । यथा “ नष्टं त्यक्तमिथःप्रतिक्षणरसैः सारङ्गमिथुनैर्यातं विस्मृतशृङ्गभारविधुरैर्वाध्रीणसकुलैः । लीनं पलवलपक्क एव सहसा क्रोडैर्ध्वनिति चेत्, कां चाटु विधित्सयापि हि भवान् शार्दूलललितम् ।" ३११ ० म्तन्जभ्राः कुरङ्गिका छैः ।। मतनजभराः उछैरिति पञ्चभिः सप्तभिश्च यतिः । यथा “ अस्या वक्त्रेन्दौ विजयिनि चिराय लाञ्छनवर्जिते, प्रालेयांशो त्वं स्फुरसि दिवि धृष्टनित्यमचेतनः । साकूतालोका द्रुतनयनकेलिनिर्जितलोचना यारण्ये तस्थावुचितचतुरेह सैव कुरङ्गिका" ३१२ ०न्सौ मौ यावनङ्गलेखा चडैः ॥ नसमभययाः चडैरिति षड्भिः पञ्चभिश्च यतिः । यथा “प्रियसखि मधु मा स्मावज्ञासीनियैनं यथावत् तव हि बकुले क्रीडामित्रेऽस्मिन् पुत्रके चूतवृक्षे । भवनपरिखा पद्मिन्यां सख्यां न्यस्तरोलम्ववर्णावलिकिसलयव्याजादेतेनानिन्यिरेऽनङ्गलेखाः" ३१३ ० सौं जौ भावुज्वलं जैः ॥ रसजजभराः जैरित्यष्टभिर्यतिः । विबुधप्रियेत्यन्ये । यथा “पाणिपादविलोचनाननपद्मकाननशालिनी निम्ननाभिमहा हुदा त्रिवलीतरङ्गविभूषिता । कुङ्कुमारुणपीवरस्तनचक्रवाकयुगाञ्चिता, केलिसिन्धुरिवोज्ज्वला मदनस्य राजति कामिनी' मालिकोत्तरमालिकावित्यन्ये । ३१४ नौ रीनिशा डैः॥ नद्वयं रचतुष्टयं च डैरिति त्रयो, दशभिर्यतिः । यथा “मलयजर सलिप्तरम्यानभाजां सिते व ससी शरदि हृदि च विभ्रतीनां विशुद्धां नवैकावलीम् । विकचकुमुदकर्णपूराञ्चितानां कुरङ्गीदृशां हिमरुचिकिरणावदात भिसतु निशा प्रेयसी" तारकेत्यन्ये । ३१५ ० नौ सौ त्यो पङ्कजवक्त्रा घझः ॥ ननससतयाः घरिति चतु