________________
छंदोनुशासन कुसुमितलतावेल्लिता उचैः ॥ मतना यगणत्रयं च उचैरिति पञ्चभिः षड्भिश्च यतिः । यथा “ कक्केल्लिस्कन्धे कुसुमितलतावेल्लिता मन्दमन्दं, क्रीडादोलेय स्मरविरचिता दाक्षिणात्यानिलेन । अस्यां खेलन्ती रतिरतितरां हन्त गीति तनोति, व्याकूजन्मत्तभ्रमररमणीहुंकृतीनां छलेन” ३०३ घछैश्चित्रलेखा ॥ चतुर्भिः सप्तभिश्च यतिश्चेत्सैव चित्रलेखा यथा " पश्योष्णांशोरभ्युदयमधुना सूचयन्ती पुरस्तात्सन्ध्या सेयं चित्रयति गगनाभोगवेश्मान्तराले । शङ्खच्छेदस्वच्छरुचिरुचिरानभ्रभित्तिप्रभागान्वर्णैः पीता ताम्रशितिकपिशैस्तन्वती चित्रलेखाः” ३०४ मन्ना यिश्चंद्रलेखा ॥ मभना यगणत्रयञ्च, घछैरिति वर्तते । यथा “ज्वालं ज्वालं सुभग तव महान् विप्रयोगानलस्तां दाहं दाहं किमिव विरचयेदन्यदस्मात्परेण । लावं लावं विकचकमलिनी-चूर्णयन्त्यङ्घिघातैलेखं लेखं शकलयति तथा सा नखैश्चन्द्रलेखाम्” ३०५ ०म्भन्जभ्राश्चलम्।। मझनजभराः। घछैरिति वर्तते यथा “शास्त्राभ्यासे व्यसनमनुपमं परोपकृतौ रतिः सत्पात्रेषु प्रणयपरतया प्रदानमनारतम् । प्रीतिः पादाम्बुरुहि जिनपतेर्भवेदमलात्मनां विद्युल्लेखाजलधरपटलीचलात्मनि जीविते” ३०६ ०म्भौ न्यौ रौ केसरम् ।। मभनयरराः घछैरिति वर्तते । यथा “ सारङ्गाणां न कुलमिह न वा यूथं महादंष्ट्रिणां कर्णातिथ्यं नच भजति कटुर्गन्धद्विपानां ध्वनिः । तत्कि दिक्षु क्षिपसि रभसया नेत्रे त्वमुद्यत्करो यद्वा ज्ञातं विधुवति पवनस्त्वत्केसरं केसरिन् ” ३०७ नौ मौ यौ चंद्रमाला छधैः ॥ ननममययाः छघेरिति सप्तभिश्चतुर्भिश्च यतिः यथा “ सरसि सरसिजं तद्वाकाशे पार्वणं चन्द्रबिम्ब, कुवलयनयने तावत् साम्यं नाभजत्त्वन्मुखस्य । जनयतु कनकाम्भोजश्रेणीर्लक्षशः स्वर्गसिन्धुर्घटयतु यदि वा सोऽपि स्रष्टा कोटिशश्चन्द्रमालाः" ३०८ नौम्तौ भ्रौ ललितम् ।। ननमतभराः छचैरितिवर्त्तते यथा “परममुपशमं वर्मीकृत्य स्थितेऽत्र महामुनौ प्रहरणमपरं दध्याः किञ्चिन्निशातमतीव यत् । पशुपतिविजयं स्मारं