SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ छंदीनुशासन " कुवलयमुदं व्यातन्वानः पूर्णोल्लसन्मंडलः शिरसि घटयत्पादन्यासं निःशेषपृथ्वीभूतां । उदयमधुना प्राप्तः श्रीमसिद्धेन्द्रसूनो भवानिव कृतबुधानंदः सोऽयं श्रीरोहिणीवल्लभः ” २९६ °नुगौँ वसुधारा जैः ॥ नुरिति पंच नगणा गुरुद्वयं च डैरिति पंचभिर्यतिः यथा “प्रणतसुरविसरमणिमुकुटतटकोटिपरिघट्टितचरणनखरुचिनिचयरम्ये । इह भवति भगवति विहरति जिननाथे प्रतिभवनमभि जगति वसुधारा" २९७ ०जजजाल्गाववितथम्॥ नजभजजेभ्यः परौ ल्गौ यथा। "शृणु परमोपदेशमिह मुग्धमते सततं, भवजलधेः परेण यदि यातुमनास्त्वमसि । विसृज परिग्रहं भज कृपां त्यज कामकथा-मवितथवाग्भवापहर मा परकीयधनम् ” नर्कुटकमिति जयदेवः । २९८ तत्कोकिलकं छचैः ॥ तदवितथं छचैः सप्तभिः पडिभश्च यतिश्चेत्कोकिलसंज्ञं । यथा “कलयति कोकिले मधुरपञ्चमगीतिमिमां, मलयसमीरणो भवति पश्यत नाट्यगुरुः । इह हि यदाज्ञया नवनवाद्भुतभङ्गिजुषः किसलयहस्तकान्वितनुते सहकारलता" इह केचिदष्टभिः पञ्चभिश्च यतिमिच्छन्ति २९९ गौ चेद्वाणिनी ॥ नजभजजेभ्यः परौ गौ चेद्वाणिनीसंज्ञं । यथा “ परभृतकूजितानि जरठेक्षुरसो नवेंदुर्मलयसमीरणो मलयजं मधुसङ्गमश्च । अपि न तथा हरन्ति मिलितानि मनो यथेदं मदभरलल्लभाषितमहो खलु वाणिनीनाम् " ३०० ० धृत्यां म्रभ्या रौ काश्ची टैः ॥ मरभयरराः । टैरिति एकादशभिर्यतिः यथा " सम्प्राप्तेऽस्मिन् जगच्चक्षुषि रवौ प्रत्यग्गिरेर्गह्वरं, प्रेयः सङ्केतवेश्माभिसरणे धत्से पिधानांशुकम् । मुग्धे ध्वान्तानुरूपं किमु मुधैवौत्सुक्ययोगाकणकाश्चीमञ्जीरकोलाहलमिमं शक्ता निषेद्धं न चेत् " वाचालकाञ्ची‘त्यन्ये । ३०१ ० भिम्भसा मणिमाला ॥ भत्रयं ममताश्च टैरितिवर्त्तते । यथा “देव तवारिनरेशपुरन्ध्रीवक्त्राम्बुजशशिनः प्रोल्लसिताधिकविस्मयमुर्वी संवीक्ष्य भुजगताम् । प्राभृतसारकृते निरवद्यामद्याप्यनवरतं मुर्द्धनि धारयते मणिमालां पातालपरिवृद्धः” ३०२ ० मना यिः
SR No.023484
Book TitleChandonushasanam
Original Sutra AuthorN/A
AuthorAnantchandravijay
PublisherChandroday Charitable and Religious Trust
Publication Year1988
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy